सामग्री पर जाएँ

आयुष्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयुष्यम्, त्रि, (आयुष् + यत् ।) पथ्यं । इति राज- निर्घण्टः ॥ आयुर्हितकारकं ॥ (मनुः । ४ । १०६ । “धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनं” । तत्रैव २ । ५१ । “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखम्” । “आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणं । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्ज्जनं” ॥ इति सुश्रुतः ॥ “आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी” । इति हारीतः ।)

"https://sa.wiktionary.org/w/index.php?title=आयुष्यम्&oldid=115886" इत्यस्माद् प्रतिप्राप्तम्