सामग्री पर जाएँ

आयुष्यसूक्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयुष्यसूक्तम्, क्ली, (आयुष्यञ्च तत्सूक्तञ्चेति । कर्म्म- धारयः ।) नान्दीश्राद्धादौ वसुधारासम्पातनान- न्तरपाठ्यो वैदिकमन्त्रविशेषः । सामगानां तन्मन्त्रो यथा, -- ओ~ आयुर्विश्वायुर्विश्वं विश्वमायुरसिमहि । प्रजा- न्त्वष्टरधिनिधेह्यस्मै शतं जीवेम शरदो वयन्ते । आयुषे मे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्र्या शृण्वन्त्वापोधःक्षरन्ती सोमो होद्गाय ममायुषे मम ब्रह्मवर्च्चसाय यजमान- स्यर्द्ध्या अमुष्य राज्याय । अमुष्य स्थाने यदर्थं वृद्धि- स्तस्य षष्ट्यन्तनाम प्रयोज्यं । इति रघुनन्दनभट्टा- चार्य्यकृतश्राद्धप्रयोगतत्त्वं ॥ * ॥ यजुर्विदां तन्मन्त्रो यथा, -- ओ~ आयुष्यं वर्च्चस्यं रायष्पोषमौद्भिदं इदं हिरण्यं वर्च्चस्व जेत्रायाविशतादुमां । न तद्रक्षां¤सि न पिशाचास्तरन्ति वेदानामोजः प्रथमजं¤ ह्येतत् । यो बिभर्त्ति दाक्षायण्यं¤ हिरण्यं¤ सहदेवेषु कृणुते दीर्घमायुः समनुष्येषु कृणुते दीर्घमायुः । यदा बध्रान्दाक्षायणां¤ हिरण्यं¤ शतानीकाय सुमनस्यमानाः । तन्न आवध्रामि शतसारदया युष्माञ्जरदष्टिर्यथासं” । इति तत्कृतयजुर्व्वेदीय- श्राद्धप्रयोगतत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=आयुष्यसूक्तम्&oldid=115888" इत्यस्माद् प्रतिप्राप्तम्