आरग्वध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरग्वधः, पुं, (आ + रगे शङ्कायां क्विप । आरग रोगशङ्कामपि हन्ति अच् बधादेशश्च ।) वृक्ष- विशेषः । सोनालु सो~दालि इति ख्यातः । तत्- पर्य्यायः । राजवृक्षः २ सम्पाकः ३ चतुरङ्गुलः ४ आरेवतः ५ व्याधिघातः ६ कृतमालः ७ सुव- र्णकः ८ । इत्यमरः ॥ मन्थानः ९ रोचनः १० दीर्घ- फलः ११ नृपद्रुमः १२ हिमपुष्पः १३ राजतरुः १४ कण्डुघ्नः १५ ज्वरान्तकः १६ अरुजः १७ स्वर्ण- पुष्पः १८ स्वर्णद्रुः १९ कुष्ठसूदनः २० कर्णा- भरणकः २१ महाराजद्रुमः २२ कर्णिकारः २३ स्वर्णाङ्गः २४ । इति राजनिर्घण्टः ॥ प्रग्रहः २५ । इति रत्नमाला ॥ अस्य गुणाः । अतिमधुरत्वं । शीतलत्वं । शूलज्वरकण्डुकुष्ठमेहकफविष्टम्भना- शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । ज्वर- हृद्रोगवातरक्तोदावर्त्तरोगे अतिशयपथ्यत्वं । मृदु- त्वञ्च । अस्य फलगुणाः । मधुरत्वं । शुक्रकारित्वं । वातपित्तहारित्वञ्च । इति राजवल्लभः ॥ आमल- तास इति हिन्दीभाषा । “आरग्वधो राजकृक्षः सम्पाकश्चतुरङ्गुलः । आरेवतव्याधिघातकृतमालसुवर्णकाः ॥ कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः । आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥ ज्वरहृद्रोगपित्तास्रवातोदावर्त्तशूलनुत् । तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं ॥ ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं” । इति भावप्रकाशः ॥ (व्यवहारो यथा, -- “बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे । योज्योमृद्वलपायित्वाद्विशेषाच्चतुरङ्गुलः” । * ॥ ग्रहणप्रणाली यथा ॥ * ॥ “फलकाले फलन्तस्य ग्राह्यं परिणतञ्च यत् । तेषां गुणवतां भारं सिकतासु निधापयेत् ॥ सप्तरात्रात् ससुद्धृत्य शोषयेदातपे मिषक् । ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्” । * ॥ संयोगविशेषे गुणा यथा ॥ * ॥ “द्राक्षारसयुतो देयो दाहोदावर्त्तपीडिते । चतुर्व्वर्षसुखं बाले यावद्द्वादशवार्षिके । * ॥ चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिं । सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥ दधिमण्डेन वा युक्तंरसेनामलकस्य वा । कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा” ॥ इति चरकः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरग्वध पुं।
राजवृक्षः
समानार्थक:आरग्वध,राजवृक्ष,सम्पाक,चतुरङ्गुल,आरेवत,व्याधिघात,कृतमाल,सुवर्णक
2।4।23।2।1
सप्तपर्णो विशालत्वक्शारदो विषमच्छदः। आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरग्वधः [āragvadhḥ], The tree Cassia Fistula (Mar. बाहवा) largely used in medicinal recipes. -धम् Its fruit.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरग्वध/ आरग्-वध m. the tree Cathartocarpus (Cassia) Fistula Bhpr. Sus3r.
आरग्वध/ आरग्-वध n. its fruit Sus3r.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरग्वध पु.
इध्म के रूप में प्रयुक्त होने वाला आरग् नामक काष्ठ का एक टुकड़ा, आप.श्रौ.सू. 18.7 (सर्पबलि)।
