सामग्री पर जाएँ

आरग्वधः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आरग्वधः, पुं, (आ + रगे शङ्कायां क्विप । आरग रोगशङ्कामपि हन्ति अच् बधादेशश्च ।) वृक्ष- विशेषः । सोनालु सो~दालि इति ख्यातः । तत्- पर्य्यायः । राजवृक्षः २ सम्पाकः ३ चतुरङ्गुलः ४ आरेवतः ५ व्याधिघातः ६ कृतमालः ७ सुव- र्णकः ८ । इत्यमरः ॥ मन्थानः ९ रोचनः १० दीर्घ- फलः ११ नृपद्रुमः १२ हिमपुष्पः १३ राजतरुः १४ कण्डुघ्नः १५ ज्वरान्तकः १६ अरुजः १७ स्वर्ण- पुष्पः १८ स्वर्णद्रुः १९ कुष्ठसूदनः २० कर्णा- भरणकः २१ महाराजद्रुमः २२ कर्णिकारः २३ स्वर्णाङ्गः २४ । इति राजनिर्घण्टः ॥ प्रग्रहः २५ । इति रत्नमाला ॥ अस्य गुणाः । अतिमधुरत्वं । शीतलत्वं । शूलज्वरकण्डुकुष्ठमेहकफविष्टम्भना- शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । ज्वर- हृद्रोगवातरक्तोदावर्त्तरोगे अतिशयपथ्यत्वं । मृदु- त्वञ्च । अस्य फलगुणाः । मधुरत्वं । शुक्रकारित्वं । वातपित्तहारित्वञ्च । इति राजवल्लभः ॥ आमल- तास इति हिन्दीभाषा । “आरग्वधो राजकृक्षः सम्पाकश्चतुरङ्गुलः । आरेवतव्याधिघातकृतमालसुवर्णकाः ॥ कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः । आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥ ज्वरहृद्रोगपित्तास्रवातोदावर्त्तशूलनुत् । तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं ॥ ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं” । इति भावप्रकाशः ॥ (व्यवहारो यथा, -- “बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे । योज्योमृद्वलपायित्वाद्विशेषाच्चतुरङ्गुलः” । * ॥ ग्रहणप्रणाली यथा ॥ * ॥ “फलकाले फलन्तस्य ग्राह्यं परिणतञ्च यत् । तेषां गुणवतां भारं सिकतासु निधापयेत् ॥ सप्तरात्रात् ससुद्धृत्य शोषयेदातपे मिषक् । ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्” । * ॥ संयोगविशेषे गुणा यथा ॥ * ॥ “द्राक्षारसयुतो देयो दाहोदावर्त्तपीडिते । चतुर्व्वर्षसुखं बाले यावद्द्वादशवार्षिके । * ॥ चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिं । सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥ दधिमण्डेन वा युक्तंरसेनामलकस्य वा । कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा” ॥ इति चरकः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आरग्वधः [āragvadhḥ], The tree Cassia Fistula (Mar. बाहवा) largely used in medicinal recipes. -धम् Its fruit.

"https://sa.wiktionary.org/w/index.php?title=आरग्वधः&oldid=217848" इत्यस्माद् प्रतिप्राप्तम्