आरट्टः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरट्टः, पुं, (आङ् + रट् + टच् ।) देशविशेषः । त्रिकाण्डशेषे क्षत्रियवर्गे आरट्टजशब्ददर्शनात् ॥ तत्र आरट्टजोऽपि पाठः ॥ (यथा भारते, -- “पञ्चनद्यो वहन्त्येता यत्र पीलवनान्युत । शतद्रुश्च विपाशा च तृतीयैरावती तथा ॥ चन्द्रभागा वितस्ता च सिन्धुषष्ठा वहिर्गिरेः । आरट्टा नाम ते देशा नष्टधर्म्मा न तान् व्रजेत्” ॥ “पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्ब्बतात् । आरट्टा नाम वाहीका न तेष्वार्य्यो द्व्यहं वसेत्” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरट्टः [āraṭṭḥ], 1 N. of a country to the north-east of Punjab, famous for its breed of horses; (the people of Guzarath in Ravalpindi still call their country Hairat or Airatdesa); the inhabitants of this country (pl.).
A horse from this country.
