आरण्यपशुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरण्यपशुः, पुं, (अरण्ये भवः । अरण्य + ष्यञ् + स चासौ पशुश्चेति कर्म्मधारयः ।) अरण्यजातपशुः । स च सप्तधा यथा । महिषः १ वानरः २ ऋक्षः ३ सरीसृपः ४ रुरुः ५ पृषतः ६ मृगः ७ । इति तिथ्यादितत्त्वे पैठीनसिः ॥
