आरम्भः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरम्भः, पुं, (आङ् + रभि + घञ् ।) प्रथमकृतिः । तत्पर्य्यायः । प्रक्रमः १ उपक्रमः २ अभ्यादानं ३ उदॄतः ४ आरम्भः ५ । इत्यमरः ॥ अभ्यादानादि- त्रयमारम्भमात्रे । प्रक्रमादिपञ्च आरम्भमात्रे इत्येके ॥ केचित्तु प्रक्रमादिद्वयं प्रथमारम्भे ॥ अभ्यादानादित्रयं आरम्भमात्रे । इति बहुभिरुक्त- मपि न साधु यतः प्रथमकृतिरेव आरम्भः तत्पूर्ब्ब- द्वयं आरम्भे शेषत्रयं आरब्धे इत्याहुः । इति मरतः ॥ त्वरा । उद्यमः । बधः । दर्पः । इति मेदिनी ॥ प्रन्तावना । इति त्रिकाण्डशेषः ॥ आद्यकृतिः । यथा, -- “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भबेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” ॥ आरम्भप्रथमक्षणे आद्यकृत्याद्यसमये । इति मल- सामतत्त्वम् ॥ पारिभाषिकारम्भो यथा, -- “आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” ॥ इति तिथ्यादितत्त्वम् ॥ (यथा मेघदूते । ३७ । -- “मृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम्” । साहित्यदर्पणे । प्रमथपरिच्छेदे । “ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्ति- कामः” । रघुवंशे । १ । १५ । “आगमैः सदृशारम्भ आरम्भसदृशोदयः” ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरम्भः [ārambhḥ], [आ-रभ्-घञ् मुम्]
Beginning, commencement; ˚उपायः plan of commencement; नृत्तारम्भे हर पशुपते- रार्द्रनागाजिनेच्छाम् Me.38.
An introduction.
(a) An act, undertaking, deed, work; आगमैः सदृशारम्भः R.1.15; Ku.7.71; V.3; Bh.2.69; R.7.31; Bg.12.16. cf. also आरम्भस्य शब्दपूर्वत्वात् । MS.11.1.1 (शबर writes आरम्भो व्यापारः क्रियेत्यनर्थान्तरम् ।). (b) Preparation; U.4. (c) A thing begun; U.4.
Haste, speed, velocity; चण्डारम्भः समीरः Ve.2.19.
Effort, exertion; Bg.14.12.
Scene, action; चित्रार्पितारम्भ इवावतस्थे R.2.31.
Pride.
Killing, slaughter.
The first act that is done.
The first movement or activity on the part of man; आरम्भो हि प्रथमः पदार्थः स्यात् । प्रथमं वा पुरुषस्य प्रवर्तनम् । (= प्रथमप्रवर्तन- मारम्भः औदासीन्याद् व्यावृत्तिः पुरुषस्य व्यापृतता) ŚB. on MS. 1.14. -Comp. -भाव्यत्वम् The fact of being produced through activity; कर्मणि आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः । MS.11.1.2. -रुचि a. Enjoying new undertakings. आरम्भरुचिता$धैर्यमसत्कार्यपरिग्रहः । Ms.12.32.
