आरोग्यशाला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरोग्यशाला, स्त्री, (आरोग्यार्था शाला । मध्यपद- लोपिकर्म्मधारयः ।) आरोग्यदानगृहं । चिकित्- सालयः । यथा, -- “धर्म्मार्थकाममोक्षाणामारोग्यं साधनं यतः । अतस्त्वारोग्यदाता च नरो भवति सर्व्वदः ॥ आरोग्यशालां कुर्व्वीत महौषधपरिच्छदां । विदग्धवैद्यसंयुक्तां बह्वन्नरससंयुतां ॥ वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः । ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित् ॥ बलवीर्य्यविपाकज्ञः शालिमांसौषधीगणे । त्यागिवद्देहिनां तद्वदनुकूलः प्रियंवदः” ॥ इति वैद्यकं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरोग्यशाला¦ स्त्री आरोग्यार्था शाला शा॰ त॰। चिकित्-सार्थे राजादिकारिते गृहभेदे तत्करणप्रकारो वैद्यकेउक्तो यथा
“धर्मार्थकाममोक्षाणामारोग्यं साधनं यतः। अतस्त्वारोग्यदाता च नरो भवति सर्वदः। आरोग्यशालांकुर्वीत महौषधपरिच्छदाम्। विदग्धवैद्यसंयुक्तां बह्वन्नर-ससंयुताम्। वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः। ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित्। बलवीर्य्यविपाकज्ञःशालिमांसौषधीगणे। त्यागिवद्देहिनां तद्वदनुकूलःप्रियंवदः”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरोग्यशाला/ आरोग्य--शाला f. a hospital L.