सामग्री पर जाएँ

आर्घ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्घ्यम्, क्ली, पीतवर्णदीर्घतुण्डषट्पदसन्निभमाक्षि- कोत्पन्नमधु । अस्य गुणाः । अतिशयचक्षुर्हित- कारित्वं । कफपित्तरक्तदोषनाशित्वञ्च ॥ इति राज- निर्घण्टः ॥ यथा, भावप्रकाशः ॥ “मधूकवृक्षा निर्यासं जरत्कार्य्व्याश्रमोद्भवाः । स्रवन्त्यार्ध्यं तदा ख्यातं श्वेतकं मालवे पुनः ॥ तीक्ष्णतुण्डास्तु याःपीता मक्षिकाः षट्पदोपमाः । आर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः” ॥ (“आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं । कषायं कटुपाके च बल्यं तिक्तमवातकृत्” ॥ इति सुश्रुतः ॥)

आर्घ्यम्, क्ली, (आर्घया मक्षिकया विहितम् । आर्घा + यत् ।) आर्घानाममक्षिकोत्पन्नमधु । तस्य गुणाः । अतिशयचक्षुर्हितकारित्वं । कफपित्तास्र- दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (यदुक्तं, -- “मधूकवृक्षानिर्यासं जरत्कार्व्वाश्रमोद्भवाः । स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः ॥ तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः । आर्घास्तास्तत्कृतं यत् तदार्घ्यमित्यपरे जगुः” ॥ यथा सुश्रुते, -- “आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं । कषायं कटु पाके च बल्यं तिक्तमवातकृत्” ॥ इदं हि अष्टविधमधुजातिमध्ये परिगणितम् । “पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च । आर्घ्यमौद्दालिकं दालमित्यष्टौ मधुजातयः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्घ्य¦ न॰ आर्घया निर्वृत्तं यत्।

१ आर्घाख्यमक्षिका-निष्पादिते

२ जरत्कार्य्याश्रममधूकवृक्षनिर्य्यासरूपे च म-धुनि। तद्विवृतिः भाव॰ प्र॰
“मधूकवृक्षानिर्य्यासं जरत्-कार्य्याश्रमोद्भवाः। स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवेपुनः। तीक्ष्णतुण्डास्तुयाः पीता मक्षिकाः षट्पदोपमाः। आर्घास्तास्तत्कृतं यत् स्यादांर्घ्यमित्यपरे जगुः। आर्घ्यंमध्वतिचाक्षुष्यं कफपित्तहरं परम्। कषायकटुकं पाकेतिक्तञ्च बलपुष्टिदम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्घ्य¦ n. (-र्घ्यं) Wild honey. E. आर्घा and यत् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्घ्य [ārghya], a. Relating to this bee. -र्घ्यम् Wild honey.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्घ्य mfn. relating to or coming from the above bee Sus3r.

आर्घ्य n. its honey L.

"https://sa.wiktionary.org/w/index.php?title=आर्घ्य&oldid=491239" इत्यस्माद् प्रतिप्राप्तम्