आर्त्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्त्तः, त्रि, (आङ् + ऋ + क्तः ।) पीडितः । असुस्थः । यथा, -- “आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः” ॥ इति प्रायश्चित्ततत्त्वं ॥ (दुःखितः, कातरः, शोका- भिभूतः, उद्वेजितः, विरक्तः, अपकृतः, उत्पी- डितः । यथा शाकुन्तले, प्रथमाङ्के । “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि” । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” । इति रघौ । १ । २८ । (तथा च चरके ॥ “नाश्विनावार्त्तं भेषजेनोपपादयेतां” । इति ॥
