सामग्री पर जाएँ

आर्त्तवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्त्तवम्, क्ली, (ऋतुरस्य प्राप्तः, अण् यद्वा ऋतुरेव । प्रज्ञादिभ्यश्चेत्यण् ।) स्त्रीरजः । इत्यमरः ॥ पुष्पं । इति मेदिनी ॥ (यथा मनुः, ३ । ४८ । “तस्मात् युग्मासु पुत्त्रार्थी संविशेदार्त्तवे स्त्रियं” । “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने” ॥ अथार्त्तवस्य स्वरूपमाह । स्त्रीणां रस एव मासेनार्त्तवं भवतीत्थुक्त्वा पुन- राह शुश्रुत एव । “मासेनोपचितं काले धमनीभ्यस्तदार्त्तवं । ईषद्विवर्णकृष्णञ्च वायुर्योनिमुखं नयेत्” ॥ गर्भग्रहणयोग्यस्यार्त्तवस्य लक्षणमाह । “शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमं । तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्” ॥ आर्त्तवस्य वर्णद्वयाभिधानं । वातादिप्रकृतिभेदेन वर्णभेदात् । यद्वासो न विरञ्जयेत् । यद्वासो लग्नं प्रक्षालितं तद्वासस्त्यजति न तु विकृतरक्तं कुर्य्यात्” । इति भावप्रकाशः ॥ “मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च । नैवातिबहुलात्यल्पमार्त्तवं शुद्धमादिशेत् ॥ गुञ्जाफलसवर्णञ्च पद्मालक्तकसन्निभं । इन्द्रगोपकसङ्काशमार्त्तवं शुद्धमेव तत्” ॥ इति चरकः, -- “शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमं । तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ॥ विधिमुत्तरवस्त्यन्तं कुर्य्यादार्त्तवशुद्धये ॥ स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्त्तवादिषु । कुर्य्यात् कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च ॥ ग्रन्थिभूते पिबेत् पाठां भूषणं वृक्षकाणि च । दुर्गन्धे पूयसङ्काशे मज्जतुल्ये तथार्त्तवे ॥ पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च” । “आर्त्तवं शोणितन्त्वाग्नेयमग्नीषोमीयत्वाद्गर्भस्य पाञ्चभौतिकञ्चापरजीवरक्तमाहुराचार्य्याः” ॥ “एवं मासेन रसः शुक्रीभवति स्त्रीणाञ्चार्त्तव- मिति” ॥ इति शुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=आर्त्तवम्&oldid=115989" इत्यस्माद् प्रतिप्राप्तम्