आर्द्रकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्रकम्, क्ली, (अर्द्दयति कफं आद्रं । ततः कन् । यद्वा आर्द्रयति जिह्वायां । क्वन् ।) कटुमूलविशेषः । आदा इति भाषा । तत्पर्य्यायः । शृङ्गवेरं २ इत्यमरः ॥ कटुभद्रं ३ कटूत्कटं ४ । इति केचित् ॥ गुल्ममूलं ५ मूलजं ६ कन्दरं ७ वरं ८ महीज ९ सकतेष्टं १० अनूपजं ११ अपाकशाकं १२ चान्द्राख्यं १३ राहु- च्छत्रं १४ सुशाककं १५ शार्ङ्गं १६ आर्द्रशाकं १७ सच्छाकं १८ । इति रात्रनिर्घण्टः ॥ अस्य गुणाः । कफवातविबन्धानाहशूलपित्तनाशित्वं । हृद्यत्वं । रुचिशुक्रकारित्वञ्च । इति राजवल्लभः ॥ अपिच । उष्णत्वं । कटुत्वं । विपाके शीतलत्वं । लघुत्वं । अग्निदीपनत्वं । शोथकण्ठामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ लवणार्द्रकगुणाः । भोजनाग्रे पथ्यत्वं । जिह्वाकण्ठविशोधनत्वं । अग्निसन्दी- पनत्वं । हृद्यत्वं, -- “वातपित्तकफेभानां शरीरवनचारिणां । एक एव निहन्तास्ति लवणार्द्रककेशरी” ॥ इति द्रव्यगुणः, -- “आर्द्रकं शृङ्गवेरं स्यात् कटुभद्रं तथार्द्रिका । आर्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी तथा । कटुका मधुरा पाके रूक्षवातकफापहा । ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः । भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनं ॥ कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे । दाहे निदाघशरदोर्नैव पूजितमार्द्रकं” ॥ इति भावप्रकाशः ॥ (तद्वदार्द्रकमेतच्च, इति वामटः ॥ “रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजं । वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते” ॥ इति चरकः ॥ “कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् । कटूष्णं रोचनं हृद्यं वृष्यञ्चैवार्द्रकं स्मृतम्” ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=आर्द्रकम्&oldid=115997" इत्यस्माद् प्रतिप्राप्तम्