सामग्री पर जाएँ

आर्द्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्द्रम्, त्रि, (अर्द्द + रक् दीर्घश्च ।) सजलवस्तु । भिजा इति भाषा । तत्पर्य्यायः । सार्द्रं २ क्लिन्नं ३ स्ति- मितं ४ तिमितं ५ समुन्नं ६ उत्तं ७ । इत्यमरः ॥ (तच्च द्विविधं यदुक्तं, -- “आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा । सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते ॥ वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् । धुस्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते ॥ वटाश्वत्थकरीराद्यमार्द्रद्रव्यं तु नीरसं । सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् । शातला वज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः । दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः” ॥ यथा रघुवंशे, “आर्द्राक्षतारोपणमन्वभूतां” । मेघदूते उत्तरमेघे २५ । “तन्त्रीमाद्रां नयनसलिलैः सारयित्वा कथञ्चित्”) ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आर्द्रम्¦ अव्य॰ आ + अर्द्र--बा॰ रमु साक्षादादिगणपाठात्नि॰ मान्तत्वं वा। सरसत्वे। आर्द्रङ्कृत्य आर्द्रंकृत्वा।

"https://sa.wiktionary.org/w/index.php?title=आर्द्रम्&oldid=218999" इत्यस्माद् प्रतिप्राप्तम्