आर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्यः, त्रि, (अर्त्तुं प्रकृतमाचरितुं योग्यः । अर्य्यते वा ॥ ऋ + ण्यत् ।) सत्कुलोद्भवः । इत्यमरः । पूज्यः । श्रेष्ठः । बुद्धः । इति शब्दरत्नावली ॥ सङ्गतः । इत्यजयः ॥ (मान्यः, उदारचरितः, शा- न्तचित्तः । यथा, रामावणे, ३ काण्डे । “योऽहमार्य्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि” । न्यायपथावलम्बी, प्रकृताचारशीलः, सततकर्त्तव्य- कर्म्मानुष्ठाता । यदुक्तं, “कर्त्तव्यमाचरन् काममकर्त्तव्यमनाचरन् । तिष्ठति प्राकृताचारे स तु आर्य्य इति स्मृतः” ॥ धार्म्मिकः । धर्म्मशीलः । यथा, मनुः, १० । ७५७ । “आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्व्विभावयेत्” । उचितः । यथा, रामायणे, -- “मार्गमाय्यं प्रपन्नस्य नानुमन्येत कः पुमान्” ॥ नाट्योक्तौ सम्मानसूचकमिदं नाम प्रायेण मान्य- जनाह्वाने व्यवह्रियते । यथा, सातित्वदर्पणे, षष्ठ- परिच्छेदे । “स्वेच्छया नाममिर्विप्रैर्विप्र आर्य्येति चेतरैः” । “वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परं” ॥)
आर्य्यः, पुं, (अर्त्तुं सदाचरितुं योग्यः । ऋ + ण्यत् ।) स्वामी । बुद्धः । इति हेमचन्द्रः ॥ सुहृत् । इत्यजयः । (श्रेष्ठवर्णः । म्लेच्छेतरजातिः । यदुक्तं महाभारते । “म्लेच्छाश्चान्ये बहुविधाः पूर्ब्बं ये निकृता रणे । आर्य्याश्च पृथिवीपालाः” । इति । स्वनामख्यातः सावर्णमनोः पुत्त्रः । यथा, हरिवंशे । “वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः । चरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च । सावर्णस्य मनोः पुत्त्राः भविष्या दश भारत !” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्य¦ पु॰ ऋ--ण्यत्।
१ स्वामिनि,
२ गुरौ,
३ सुहृदि च।
४ श्रेष्ठकुलोत्पन्ने
५ पूज्ये
६ श्रेष्ठे,
७ सङ्गते, नाट्योक्तौ
८ मान्ये,
९ उदारचरिते,
१० शान्तचित्ते
“कर्त्तव्यमाचरन् कार्य्यम-कर्त्तव्यमनाचरन्। तिष्ठति प्रकृताचारे स वा आर्य्य इतिस्मृतः इत्युक्तलज्ञणे
११ जने च त्रि॰।
“ग्रहीतुमार्य्यान्परिचर्य्यया मुहुः” माघः।
“त्यजेदकस्मात्, पतिरार्य्यवृत्तः”
“वर्णापेतमविज्ञातं नरं कलुषयोनिजम्। आर्यरूपमिवानार्यंकर्मभिः स्वैर्विभावयेत्”
“जातो नार्य्यामनार्यायामार्यादार्योभवेद्गुणैः। जातोऽप्यनार्यादार्यायामनार्यैति निश्चयः”।
“अनार्य्य मार्यकर्माणमार्यं चानाय्यकर्मिणम्,। संप्रधार्याव्रवीदेतौ न समौ नासमाविति” इति च मनुः। आर्य्यत्वेन सम्भाषणे नाटके नियमविशेषाः सा॰ द॰उक्ता यथा
“राजन्नित्यृपिभिर्वाच्यः सोऽपत्यपत्ययेन च। स्वेच्छया नामभिर्निव्रैर्विप्र आर्य्येति चेतरैः” विप्रेतरैर्विप्रः आर्य्येति वाच्यः
“वाच्यौ नटीसूत्रधारावार्यनाम्नापरस्परम्”। नट्या सूत्रधारः आर्य्येति वाच्यः सूत्रधारेणच नटी आर्य्या इति वाच्या।
“वयस्येत्युत्तमैर्वाच्योमध्यैरार्य्येति चाग्रजः”।
“आर्य्यबालचरितप्रस्तावनाडि-ण्डिम” इति वीरच॰ रामचरितवर्ण्णने लक्षणोक्तिः।
“वत्स![Page0812-b+ 38] पुत्रक तातेति संज्ञागोत्रेण वा युतः। शिष्योऽनुजश्च वक्त-व्योऽमात्य आर्य्येति चेतरैः” इतरैरमात्य आर्य्येति वक्तव्यः(
“वृत्तेन हि भवत्यार्य्यो न धनेन न विद्यया” भा॰उ॰
८९ अ॰ उक्तेः सदाचारेणैव नराणामार्य्यत्वम्। आर्य्याऽप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति” कुमा॰
१२ प्राकृतभाषायां स्त्री
“मुखबाहूरुपज्जानां या लोकेजातयो बहिः। म्लेच्छवाचश्चार्य्यवाचः सर्वेते दस्यवःस्मृताः” मनुः।
१३ श्वशुरे पु॰। आर्य्यपुत्रः पतिः
“आर्य्यो ब्राह्मणकुमारयोः” पा॰ उक्तेः कर्मधारयेब्राह्मणकुमारयोः परतः प्रकृतिस्वरः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं)
1. Of a good family.
2. Respectable, venerable.
3. Apposite, proper.
4. To be sought or obtained. m. (-र्य्यः)
1. A master, an owner.
2. A name of BUDDHA.
3. A friend. f. (-र्य्या)
1. A name of PARVATI.
2. A kind of metre, measured by feet, each foot being equal to four short syllables, or two long and two short; there are seven and a half feet in each verse of the couplet, equal to thirty and to twenty-seven syllabic instants: the regular form consists of alternate long and short verses, but it admits of eighty principal variations. E. ऋ to go, ण्यत् affix; also अर्य्य।
