आर्य्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्यः, त्रि, (अर्त्तुं प्रकृतमाचरितुं योग्यः । अर्य्यते वा ॥ ऋ + ण्यत् ।) सत्कुलोद्भवः । इत्यमरः । पूज्यः । श्रेष्ठः । बुद्धः । इति शब्दरत्नावली ॥ सङ्गतः । इत्यजयः ॥ (मान्यः, उदारचरितः, शा- न्तचित्तः । यथा, रामावणे, ३ काण्डे । “योऽहमार्य्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि” । न्यायपथावलम्बी, प्रकृताचारशीलः, सततकर्त्तव्य- कर्म्मानुष्ठाता । यदुक्तं, “कर्त्तव्यमाचरन् काममकर्त्तव्यमनाचरन् । तिष्ठति प्राकृताचारे स तु आर्य्य इति स्मृतः” ॥ धार्म्मिकः । धर्म्मशीलः । यथा, मनुः, १० । ७५७ । “आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्व्विभावयेत्” । उचितः । यथा, रामायणे, -- “मार्गमाय्यं प्रपन्नस्य नानुमन्येत कः पुमान्” ॥ नाट्योक्तौ सम्मानसूचकमिदं नाम प्रायेण मान्य- जनाह्वाने व्यवह्रियते । यथा, सातित्वदर्पणे, षष्ठ- परिच्छेदे । “स्वेच्छया नाममिर्विप्रैर्विप्र आर्य्येति चेतरैः” । “वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परं” ॥)
आर्य्यः, पुं, (अर्त्तुं सदाचरितुं योग्यः । ऋ + ण्यत् ।) स्वामी । बुद्धः । इति हेमचन्द्रः ॥ सुहृत् । इत्यजयः । (श्रेष्ठवर्णः । म्लेच्छेतरजातिः । यदुक्तं महाभारते । “म्लेच्छाश्चान्ये बहुविधाः पूर्ब्बं ये निकृता रणे । आर्य्याश्च पृथिवीपालाः” । इति । स्वनामख्यातः सावर्णमनोः पुत्त्रः । यथा, हरिवंशे । “वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः । चरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च । सावर्णस्य मनोः पुत्त्राः भविष्या दश भारत !” ॥)
