आर्य्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्या, स्त्री, (ऋ + ण्यत् + स्त्रियां टाप् ।) पार्ब्बती । इति त्रिकाण्डशेषः । छन्दोविशेषः । तस्या लक्षणम् । “यस्याः पादे प्रथभे द्वादशमात्राः स्थितास्तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्य्या” ॥ इति श्रुतबोधः ॥ अपिच । “लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः । षष्ठो जश्च न लघुर्वा प्रथमेऽर्द्धे नियतमार्य्यायाः ॥ षष्ठे द्वितीयलात्परकेल्ले मुखलाच्च स यतिपदनियमः । चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः” ॥ सा नवधा । “पथ्या विपुला चपला भुखचपला जघनचपला च । गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या” ॥ इति छन्दोमञ्जरी ॥ श्रेष्ठा स्त्री ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्या¦ स्त्री ऋ--ण्यत्। पार्वत्याम् आर्य्याशतकम्।
२ श्वश्र्वांश्रेष्ठायां
३ स्त्रियाञ्च
४ मात्रावृत्तभेदे
“लक्ष्मैतत्सप्तगणा गोपेता नेह भवति विषमे जः। षष्ठोजश्च नलघूवा प्रथमेऽर्द्धे नियतमार्य्यायाः। षष्ठे द्वितीयलात्परके नले मुखलाच्च सयति पदनियमः। चरमेऽर्द्धे पञ्चमकेतस्मादिह भवति षष्ठोलः” वृत्त॰ र॰ उक्ते
५ छन्दोभेदे स्त्री। साचार्या नवविधा यथा
“पथ्या विपुला चपला मुखचपलाजघनचपला च। गीत्युपगीत्युद्गीतष आर्यागीतिश्चनवधा चार्या” इति। तासां लक्षणम् वृत्तर॰।
“त्रिष्वं-शकेषु पादो दलयोराद्येषु दृश्यते यस्याः। पथ्येति
१ नामतस्याः प्रकीर्त्तितं नागराजेन। उल्लङ्घ्य गणत्रयमादिमंशकलयोर्द्वयोर्भवति पादः। यस्यास्तां पिङ्गलनागोविपुलामिति
२ समाख्याति। उभयार्द्धयोर्जकारौ द्वितीय-तुर्यौ गमध्यगौ यस्याः। चपलेति
३ नाम तस्याःप्रकीर्त्तितं नागरांजेन। आद्यं दलं समस्तं भजेत लक्ष्मचपलागतं यस्याः। शेषे पूर्बजलक्ष्मा मुखचपला
४ सोदितामुनिना। प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु चप-लायाः। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला
५ सा। आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः। दलयोः कृतयतिशोभां तां गीतिं
६ गीतवान् भुज-ङ्गेशः। आर्याद्वितीयकेऽर्द्धेयद्गद्रितं लक्षणं तत् स्यात्। उभयोरपि दलयोरुपगीतिं
७ तां मुनिर्ब्रूते। आर्याश-कलद्वितयं व्यत्ययरचितं भवेद् यस्याः। सोद्गीतिः
८ किल गदिता तद्वदंशभेदसंयुक्ता। आर्यापूर्ब्बार्द्ध्वं यदिगुरुणैकेनाधिकेन निधने युक्तम्। इतरत्तद्वन्निखिलं[Page0813-b+ 38] यदीयमुदितेयमार्यागीतिः”
९ ।
“पादे द्वादश विषमेमात्राष्टादश द्वितीये हि। पञ्चदश चेत् तुरीये कथि-ता गाथा तथैवार्य्या” ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टा-दशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गण-नियमोऽस्त्येव सामान्यशास्त्रऽतोऽपवादशास्त्रस्य प्रबल-त्वात्। तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव।
“शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्योभिः। संक्षिप्त-मार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्” सां॰ का॰
“क्वचिदत्रभवेदार्याक्वचिद्वक्त्रापवक्त्रके” सा॰ द॰ कथालक्षणम्।
“आर्यावक्त्रापवक्त्राणांछन्दसा येन केनचित्” सा॰ द॰।
“अति-स्पष्टवर्णस्वरसंस्कारवत्या गिरा राजानमुद्दिश्यार्यामिमांपपाठ” काद॰।
