आर्य्यावर्त्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्य्यावर्त्तः, पुं, (आर्य्या आवर्त्तन्तेऽत्र आर्य्य + आ + वृत् + आधारे घञ् ।) बिन्ध्यहिमाचल- यीर्मध्यदेशः । तत्पर्य्यायः । पुण्यभूमिः २ । इत्य- मरः ॥ यथा, -- “आसमुद्रात्तु वै पूर्ब्बादाससुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्य्यारार्य्यावर्त्तं विदुर्बुर्धाः” ॥ इति मानवे २ । २२ ॥ अपि च, अमरे । -- “आर्य्यावत्तः पुण्यभूमिर्मध्यं बिन्ध्यहिमागयोः” ।
