आलम्बः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आलम्बः, पुं, (आङ् + लवि + घञ् ।) अवलम्बः । आश्रयः ॥ (शरणं । गतिः । “इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनम्” । इति शान्ति- शतके ३ । २ ।) अधोलम्बनम् । यथा, रामायणे, -- “शोभते किञ्चिदालम्बैः शालयः कनकप्रभाः” ॥)
