आलस्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आलस्यम्, क्ली, (अलस + ष्यञ् ।) अलसस्य भावः । अलसता । तत्पर्य्यायः । तन्द्रा २ कौसीद्यं ३ । इति हेमचन्द्रः ॥ मन्दता ४ मान्द्यं ५ कार्य्यप्रद्वेषः ६ । इति राजनिर्घण्टः ॥ (यदुक्तं । “आलस्यं श्रमग- र्भाद्यैर्जाड्यं जृम्भासितादिकृत्” इत्युक्तलक्षणो व्यभिचारिभावभेदः । सुश्रुते । “सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता । शक्तस्य चाप्यनुत्साहः कर्म्मण्यालस्यमुच्यते” ॥)
