सामग्री पर जाएँ

आलानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आलानम्, क्ली, (आलीयतेऽत्र । आङ् + ली + ल्युट् । विभाषा लीयतेरित्यात्त्वम् ।) गजबन्धनस्तम्भः । इत्यमरः ॥ गजबन्धनरज्जुः । इति नीलकण्ठः ॥ (रघुवंशे १ । ७१ । “अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” । कादम्बरी । “इभमदमलिनमालानस्तम्भयुगलमुप- हसन्तमिवोरुदण्डद्वयेन” । रघुवंशे ४ । ६९, ४ । ८१ । “गजालानपरिक्लिष्टैरक्षोटैः सार्द्धमानताः” । “तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः” ॥) बन्धनं । इति रायमुकुटः ॥ रज्जुः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आलानम् [ālānam], [आलीयते$त्र, आ-ली-ल्युट्]

The post to which an elephant is tied; tying post, also the rope that ties him; अरुंतुदमिवालानमनिर्वाणस्य दन्तिनः R.1.17,4. 69,81; आलाने गृह्यते हस्ती Mk.1.5; वन्या इव विनालानं क्रीडन्तु करिणो मम Śiva. B.19.19;2.52.

A fetter, tie.

A chain, rope, string.

Tying, binding.

"https://sa.wiktionary.org/w/index.php?title=आलानम्&oldid=219662" इत्यस्माद् प्रतिप्राप्तम्