सामग्री पर जाएँ

आलीढम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आलीढम्, क्ली, (आङ् + लिह् + क्तः ।) धन्विनां दक्षिण- जङ्घाप्रसारवामपादसंकोचरूपावस्थानं । इत्यमरः । (यथा, रघौ ३ । ५२ । । “अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः” । (तल्लक्षणं यथा, चिन्तामणिधृतम् । “नमिता पूर्ब्बजङ्घा च पश्चिमा प्रगुणा भवेत् । असमो मध्यकायश्च स्यादालीढस्य लक्षणम्” ॥)

आलीढम्, त्रि, (आङ् + लिह + क्त ।) अशितं । भुक्तं । इति मेदिनी ॥ (क्षतः, रघुवंशे, २ । ३७ । “सेनान्यमालीढमिवासुरास्त्रैः” ।)

"https://sa.wiktionary.org/w/index.php?title=आलीढम्&oldid=116084" इत्यस्माद् प्रतिप्राप्तम्