आलुकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुकम्, क्ली, (आलु + स्वार्थेकन् ।) मूलविशेषः आलु इति भाषा । इति राजवल्लभः ॥ एलवालुकं । इति राजनिर्घण्टः ॥ तद्विवरणं यथा, -- “आलुकमप्यालूकं तत् कथितं वीरसेनश्च । काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते ॥ पिण्डालुकमध्वालुकरक्तालुकानि व्यक्तानि” । काष्ठालुकं काठिन्ययुक्तकटारु । शङ्खालुकं श्वेतता- युक्तशङ्खालु । हस्त्यालुकं दीर्घतायुक्तमहाशरीरं । पिण्डालुकं वर्त्तुलसुथनी । मध्वालुकं मधुरतायुक्त- रोमान्वितदीर्घसुथनी । रक्तालुकं रतारू तरण्डा इति च । एषां गुणाः । “आलुकं शीतलं सर्व्वं विष्टम्भि मधुरं गुरु । सृष्टमूत्रमलं रूक्षं दुर्ज्जरं रक्तपित्तनुत् ॥ कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्” । इति भावप्रकाशः ॥ (“आलुकानि च सर्व्वाणि तथा सूप्यानि लाक्ष्मणं । स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषणम्” ॥ इति वाभटः ॥ “विदारीकन्दशतावरीविसमृणालशृङ्गाटककशेरु- कपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्ख्या- लुकरक्तालुकेन्दीबरोत्पलकन्दप्रभृतीनि” ॥ “रक्तपित्तहराण्याहुः शीतानि मधुराणि च । गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च” ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=आलुकम्&oldid=491329" इत्यस्माद् प्रतिप्राप्तम्