आलोचनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आलोचनम्, क्ली, (आङ् + लुच् + ल्युट् ।) दर्शनं । विवेचनं ॥ (यथा हेमचन्द्रः, “रहस्यालोचनं मन्त्रः” । सांख्यमते निर्विकल्पकं ज्ञानं निर्द्धर्म्मकं शुद्धवस्तुविषयकं प्राथमिकं ज्ञानं । यदुक्तं । “अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्वकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यथा” । “बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता” । “शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृ- त्तिः” ॥ सांख्यकारिका ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आलोचनम् [ālōcanam] ना [nā], ना 1 Seeing, perceiving, survey, view; आलोचनमात्रमिष्यते वृत्तिः Sāṅ. K.28.
Considering, reflecting.
