आवरणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आवरणम्, क्ली, (आङ् + वृ + ल्युट् ।) फलकं । इति हेमचन्द्रः ॥ ढाल इति भाषा । आच्छादनं । ढाका इति भाषा ॥ (यथा महाभारते, आदिपर्ब्बणि । “विचित्राणि च वासांसि प्रावारावरणानि च” । “सूर्य्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा” । इति रघुः । ५ । १३ । मनुः । ३ । १६३ । “स्रीतसां भेदको यश्च तेषाञ्चावरण रतः” ॥)
