सामग्री पर जाएँ

आवर्त्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आवर्त्तम्, क्ली, (आङ् + वृत् + घञ् ।) माक्षिकधातुः । इति राजनिर्घण्टः ॥ (आवर्त्तनं । चक्राकारेण- भ्रमणं ।)

आवर्त्तः, पुं, (आङ् + वृत् + घञ् ।) जलभ्रमः । इत्य- मरः ॥ घूर्णा इति भाषा । (रघुवंशे ६ । ५२ । “नृपं तमावर्त्तमनोज्ञनाभिः” ।) चिन्ता । आवर्त्तनं । इति मेदिनी ॥ मेघनायक- चतुष्टयान्तर्गतमेघाधिपविशेषः । इति पुराणं ज्योतिषञ्च । (यथा मेघदूते पूर्ब्बमेघे ६ । “जातं वंशे भुवनविदिते पुष्करावर्त्तकानाम्” ।) राजावर्त्तनामोपरत्नं । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आवर्त्त¦ पु॰ आ + वृत--भावादो घञ्। चक्राकारेण जलस्यस्वयं

१ भ्रमणे, (घुरणो) घ्रवाख्ये घोटकचिह्ने

२ रोमसंस्थान-भेदे राजावत्तनामके

३ मणौ

४ आवर्त्तने,।

५ मेघा-धिपभेदे च

६ माक्षिकधातौ न॰।
“नृपं तमावर्त्तमनोज्ञ-नाभिः” रघुः
“तथापि समतावर्त्ते मोहगर्त्ते निपातिताः” देवीमा॰
“त्रियुते, शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्। आवर्त्तोनिर्जलोमेघः संवर्त्तश्च बहूदकः। पुष्करोदुष्करजलोद्रोणः सम्यक्प्रपूरकः” ज्यो॰ त॰।
“आवर्त्तिनः शुभफल-प्रदशुक्तियुक्ता आपन्नदेवमणयोभृतरन्ध्रभागाः। अश्वा-प्यघुर्वसुमतीमतिरोचमानास्तूर्ण्णं पयोधय इवोर्मिभिरा-पतन्तः” माघः।
“आवर्त्तिनः दशावर्त्तयुक्ताः प्रशसायोणिनि। ते च
“द्वावुरस्यौ शिरस्यौ द्वौ द्वो द्वौ रन्ध्रोपर-न्ध्रयोः। एकोभाले ह्यपाने च दशावर्त्ता ध्रवाः स्मृताः” पयोधिपक्षे जलभ्रमः” मल्लि॰ आश्वावर्त्तश्च अश्वशब्दे

५०

३ पृष्ठे उक्तः।

७ आवर्त्ताकारे देहिनां रोमसंस्थानये{??}पु॰ अश्वानामपि उक्तध्रुवरूपावर्त्तोरोमसंस्थानविशेष एवेतिबोध्यम्। णिच्--भावे अच्।

८ पुनः पुनश्चालने

९ परिघट्टमे(आओटान)

१० धातूनां द्रावणे (गलान)

११ चिन्ता-याञ्च चिन्तया हि चित्तं स्वविषयेषु पुनःपुनश्चाल्यतेइति तस्याः तथात्वम्। आवर्त्त्यते समन्तात् अनेक-कोटिषु आ + वृत--णिच्--कर्म्मणि अच्। अनेक कोटिस्पर्शिनि

१२ संशये
“भ्रमं संमोहमावर्त्त मभ्यासाद्विधितोजयेत्” भा॰ शा॰

२७

३ अ॰ आवर्त्तमनेककोटिस्पर्शेन संशयम्अभ्यासात् तत्त्वाभ्यासात्” नीलक॰। आवर्त्तते कर्त्तरिअच्।

१३ आवर्त्तमाने त्रि॰
“दक्षिणावर्त्तशङ्खोऽयं हन्तचूर्ण्णीकृतोमया” सा॰ द॰

१४ संसारे पु॰ तस्यानिशमावर्त्त-मानत्वात्तथात्वम्।
“इममावर्त्तं नावर्त्तन्ते” इति श्रुतिः
“शङ्खनाभ्याकृतिर्योनिस्त्रावर्त्ता मा प्रकीर्त्तिता। तस्यास्तृतीयेत्वावत्त गर्मशय्या प्रतिष्ठिता”
“शङ्खावर्त्तनिभाश्चापि उप-र्य्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः सुप्र-कीर्त्तिताः” इति सुश्रुतोक्ते देहान्तर्वर्त्तिनि आवर्त्ताकारे

१३ नाडीसन्निवेशभेदे च। [Page0828-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आवर्त्त¦ m. (-र्त्तः)
1. Revolving, turning round.
2. A whirlpool.
3. A lock of hair that curls backwards, especially on a horse.
4. Deliberation, revolving.
5. A mineral substance, pyrites, marcasite. E. आङ् be- fore वृत् to choose, घञ् aff.

"https://sa.wiktionary.org/w/index.php?title=आवर्त्त&oldid=220273" इत्यस्माद् प्रतिप्राप्तम्