आवली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आवली, स्त्री, (आङ् + बल् + इन् + ङीप् ।) आ- बलिः । इत्यमरः ॥ (यथा अमरुशतके ३ ॥ “आ- लोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं” । “द्विजावलीव्याजनिशाकरांशुभिः” । इति माघे १ । २५ ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आव(लि)ली¦ स्त्री आ + बल--इन् वा ङीप्।
१ श्रेणौ सजाती-यसमुदायेन कृतपङ्क्तौ
“वृक्षावलिः धनावलिरिति।
“के वान सन्ति भुवि तामरसावतंसा हंसावलीबलयिनो जलसन्नि-वेशाः” उद्भटः।
“द्विजावलीबालनिशाकरांशुभिः” माघः।
“व्यलोकयच्चम्पककोरकावलीः” नैष॰
२ परम्परायाञ्ज।