आवापः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आवापः, पुं, (आ वपन्ति सलिलमत्र । आङ् + वप् + घञ् ।) आलवालं । इत्यमरः ॥ वलयः । (यथा महाभारते १४ पर्ब्बणि । “मोहात् पपात गाण्डीवमावापं च करादपि” ।) शत्रुचिन्तनं । (परराष्ट्रचिन्तनम् । यथा, माघे । २८८ ।) “तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता” ।) पानभेदः । इति हेमचन्द्रः ॥ भाण्डवपनं । परिक्षेपः । इति मेदिनी ॥ निम्नोन्नतभूमिः । इत्यजयः ॥ पात्रं । इति शब्दरत्नावली ॥ प्रधानहोमः । इति स्मृतिः ॥
