आविकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आविकः, पु, (अविना मेषलोम्ना कृतम् इति अवि + ठक् ।) कम्वलं । इति हलायुधः ॥ (त्रि, मेष- लोम्ना निर्म्मितं, । २ । ४१ “वसोरन्नानुपूर्ब्येण शाणक्षौमाविकानि च” । भेडीदुग्धं । यथा वैद्यके, -- “आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥ गुरु कासेऽनिलोद्भूते केवले चानिले वरम्” । इति ।)
