आशुशुक्षणिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आशुशुक्षणिः, पुं, (आ समन्तात् शोष्टुमिच्छति । आङ् + शुष् + सन् + अनि ।) अग्निः । इत्यमरः ॥ (यथा कादम्बर्य्यां, -- “मन्त्रपूतानि हवींषि प्रति- गृह्णाति एतत्प्रीत्या आशुशुक्षणिः” ।) वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
