सामग्री पर जाएँ

आश्विनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आश्विनः, पुं, (अश्विनीनक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । अश्विनी + अण् ।) वैशाखादिद्वादश- मासान्तर्गतषष्ठमासः । रवेः कन्याराशिस्थिति- कालः । तत्पर्य्यायः । इषः २ आश्वयुजः ३ । इत्य- मरः ॥ शारदः ४ । इति राजनिर्घण्टः ॥ तत्र जातफलं । “राज्ञां प्रियः काव्यकलाविदग्धः स्याद्दर्भगर्भाग्रसुतीक्ष्णबुद्धिः । सुखी वदान्यो बहुमानशाली भक्तो भवेदाश्विनमासजन्मा” ॥ इति कोष्ठीप्रदीपः ॥

"https://sa.wiktionary.org/w/index.php?title=आश्विनः&oldid=116285" इत्यस्माद् प्रतिप्राप्तम्