सामग्री पर जाएँ

आषाढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आषाढः, पुं, (आषाढया नक्षत्रेण युक्ता पूर्णिमा यस्मिन् । आषाढा + नक्षत्रेण युक्तः कालः इति अण् । पलाशदण्डपक्षे आषाढः प्रयोजनमस्य इति विशाखाषाढादण् मन्थदण्डयोरित्यण् ।) वैशाखादिद्वादशमासान्तर्गततृतीयमासः । रवे- र्मिथुनराशिस्थितिकालः । पूर्ब्बोत्तराषाढान्यतर- नक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । तत्पर्य्यायः । शुचिः २ । इत्यमरः ॥ तत्र जातफलं । “अनल्पजल्पी प्रमदाभिलाषी प्रमादशीलो गुरुवत्सलश्च । बहुव्ययो मन्दहुताशनः स्या- दाषाढमासप्रभवो मनुष्यः” ॥ इति कोष्ठीप्रदीपः ॥ व्रतिनां पलाशदण्डः ॥ (“अथाजिनाषाढधरः प्रभल्भवाक् ज्वलन्निव ब्रह्ममयेन तेजसा” । इति कुमारे । ५ । ३० ।) मलयपर्ब्बतः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आषाढः [āṣāḍhḥ], [आषाढी पूर्णिमा अस्मिन्मासे अण्]

N. of a Hindu month (corresponding to part of June and July); आषा- ढस्य प्रथमदिवसे Me.2; शेते विष्णुः सदाषाढे कार्तिके प्रतिबोध्यते V.P.

A staff of the Palāśa wood carried by an ascetic; अथाजिनाषाढधरः प्रगल्भवाक् Ku.5.3.

The Malaya mountain. -ढा The 2th and the 21st lunar mansions usually called पूर्वाषाढा and उत्तराषाढा. -ढी The day of full moon in the month of Āṣāḍha; तस्य नित्यं सदा$$ षाढयां माध्यां च बहवो द्विजाः Mb.12.171.17. -Comp. -भव, -भू a. produced in the month of Āṣāḍha. (-वः, -भूः) the planet Mars.

"https://sa.wiktionary.org/w/index.php?title=आषाढः&oldid=221960" इत्यस्माद् प्रतिप्राप्तम्