सामग्री पर जाएँ

आसवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आसवः, पुं, (आङ् + सुञ् + अप् ।) मद्यविशेषः । तत्पर्य्यायः । मैरेयं २ शीधुः ३ । इत्यमरः ॥ “शीवुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्” ॥ इति माधवेन भेदः कृतस्तथापि सूक्ष्ममनादृत्ये- दमुक्तम् । इति भरतः ॥ मद्यमात्रम् । इति राजनिर्घण्टः ॥ (यथा भनुः ११ । ९५ । “यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवं । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हरिः” ।) (“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः” । इति शार्ङ्गधरः । यथा भावप्रकाशे । “आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ।) आसवभेदेन गुणभेदो यथा ॥ “छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्” । “शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः” । इति च वाभटः ॥ “मुखप्रियः सुखमदः सुगन्धिर्वस्तिरोगनुत् । जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः” ॥ “रोचनो दीपनो हृद्यः शोषशोफार्शसंहितः । स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः” ॥ “मृष्टो भिन्नशकृद्वातो गौडस्तर्पणदीपनः । छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः” ॥ इति चरकः ॥ तथा च सुश्रुते ॥ “तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥ मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः । लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥ तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् । तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥ कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः । बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आसवः [āsavḥ], [आ सु-अण्]

Distillation.

Decoction.

Any spirituous liquor (distilled from sugar, molasses &c.); अनासवाख्यं करणं मदस्य Ku.1.13; कुमारी˚, द्राक्षा˚ &c.; यच्च पक्वैषधाम्बुभ्यां सिद्धं मद्यं स आसवः Bhāva. P. Mādhava, however, seems to differ and says, शीधुरिक्षुरसैः पक्वैरपक्वै- रासवो भवेत् । मैरेयं धातकीपुष्पैर्गुडधानाम्लसंहितम् ॥; आसवरागताम्रम् Ki.16.46.

A vessel for liquor.

Exciting.-Comp. -द्रुः [आसवस्य कारणं द्रुः शाक˚ त˚] N. of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).

"https://sa.wiktionary.org/w/index.php?title=आसवः&oldid=222251" इत्यस्माद् प्रतिप्राप्तम्