आसुरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आसुरम्, क्ली, विड्लवणम् । इति राजनिर्घण्टः ॥ असुरस्य भावः । (यथा गीतायां ७ । १५ । “न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः” ।) असुरसम्बन्धीये त्रि । इति व्याकरणम् ॥
आसुरम्, त्रि, (असुरस्येदम् । असुर + अण् ।) असुर- सम्बन्धि । यथा -- “यस्मिन् नवे पुराणे च विश्वे देवा न लेभिरे । आसुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्” ॥ इति श्राद्धतत्त्वे ऋग्वेदीयगृह्यपरिशिष्टम् ॥ अपि च । “स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने । आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” ॥ इति श्राद्धतत्त्वधृतयमवचनम् ॥ * ॥ आसुरसर्गो यथा । “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत् कामहेतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्न्माणः क्षयाय जगतोऽहिताः ॥ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहात् गृहीत्वा सद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः ॥ चिन्तामपरिमेयाञ्च प्रलयान्तामपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ आशापाशशतैर्ब्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ आत्मसम्भावितास्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥ अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय तती यान्त्यधमां गतिम्” ॥ इति श्रीभगवद्गीतायां १६ अध्यायः ॥
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ĀSURAM : A form of marriage. (See VIVĀHA).
_______________________________
*2nd word in left half of page 95 (+offset) in original book.
