आस्तिकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तिकः, पुं, (अस्तीत्यस्य । अस्ति + ठक् ।) मुनि- विशेषः । स तु जरत्कारुमुनिपुत्त्रः । तत्पिता गर्भस्थं तं ज्ञात्वास्तीत्युक्त्वा गत इत्यस्मादास्तिकः । (यथा, -- “अस्तीत्युक्त्वा गतो यस्मात् पिता गर्भस्थमेव तम् । वनं तस्मादिदं तस्य नामास्तिकेति विश्रुतम्” ॥) इति महाभारतम् ॥ (“आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा” । इति मनसाप्रणाममन्त्रः ।)
आस्तिकः, त्रि, (अस्ति ईश्वर इति मतिर्यस्य । अस्ति + ठक् ।) नास्तिकभिन्नः । ईश्वरोऽस्तीति- वादी । वेदप्रामाण्यवादी । तत्पर्य्यायः । श्रद्धालुः २ श्राद्धः ३ । इति हेमचन्द्रः ॥ (“सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः” ॥ इति महाभारते आदिपर्ब्बणि ॥)
