आस्तीक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तीकः, पुं, आस्तिकमुनिः । इति त्रिकाण्डशेषः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तीक¦ पु॰ वासुकिभगिन्यां जरत्कारुनाम्न्यां जरत्का-रुमुनेःपुत्रे मुनिभेदे तदुत्पत्तिकथा यथा। [Page0892-b+ 38]
“तत्र तां भैक्षकत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रोवासुकिर्ब्रह्मन्न स तां प्रत्यगृह्लत। अस्वनामेति वै मत्वाभरणे चाविचारिते। मोक्षभावे स्थितश्चापि द्वन्दभूतःपरिग्रहे। ततो नाम स कन्यायाः पप्रच्छमृगुनन्दन!। वासुकिं भरणं चास्या न कुर्य्यामित्युवाच ह। भा॰आ॰
४६ अ॰।
“सौतिरुवाच। वासुकिस्त्वब्रवीद्वाक्यंजरत्कारुमृषिं तदा। सनाम्नी तव कन्येयं स्वसामे तपसाऽन्विता। भरिष्यामि च ते भार्य्यां प्रतीच्छेमांद्विजोत्तम। रक्षणञ्च करिष्येऽस्याः सर्वशक्त्या तपोधन!। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम!। ऋषिरुवाच। न भरिष्येऽहमेतां वै एष वै समयः कृतः। अप्रियञ्च नकर्त्तव्यं कृते चैनां त्यजाम्यहम्। सौतिरुवाच। प्रतिश्रुतेतु नागेन भरिष्येभगिनीमिति। जरत्कारुस्तदा वेश्म भुज-गस्य जगाम ह” इत्युपक्रम्य।
“उत्सङ्गेऽस्याः शिरः कृत्वासुष्वाप परिखिन्नवत्। तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्त-मियाद्गिरिम्। अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तय-त्तदा। वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी। किन्नु मे सुकृतं भूयाद्भर्त्तुरुत्थापनं न वा। दुःखशीलोहि धर्म्मात्मा कथं नास्यापराध्नुयाम्। कोपो वा धर्म्म-शीलस्य धर्म्मलोपोऽथवा पुनः। धर्म्म लोपो गरीयान्वैस्यादित्यत्राकरोन्मतिम्। उत्थापयिष्ये यद्येनं ध्रुवं कोपंकरिष्यति। धर्म्मलोपो भवेदस्य सन्ध्याऽतिक्रमणे ध्रु-वम्। इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा। तमृषिंदीप्ततपसं शयानमनलोपमम्। उवाचेदं वचः श्लक्ष्णंततो मधुरभाषिणी। उत्तिष्ठ त्वं महाभाग! सूर्य्योऽस्त-मुपगच्छति। सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रत!। प्रादुष्कृताग्निहोत्रोऽयं मुहूर्त्तो रम्यदारुणः। सन्ध्याप्रवर्त्तते चेयं पश्चिमायां दिशि प्रभो!। एवमुक्तः स भगवान्जरत्कारुर्म्महातपाः। भार्यां प्रस्फुरमाणौष्ठ इदं वच-नमब्रवीत्। अवमानः प्रयुक्तोऽयं त्वया भम भुजङ्गमे!। समीपे ते न वत्स्याभि गमिष्यामि यथागतम्। शक्तिरस्तिन वामोरु! मयि सुप्ते विभावसोः। अस्तं गन्तुं यथाकालमिति मे हृदि वर्त्तते। न वाऽप्यवमतस्येह वासो रोचेतकस्यचित्। किं पुनर्द्धर्मशीलस्य मम वा मद्विधस्य वा। एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्। अब्रवीद्भगिनीतत्र वासुकेः सन्निवेशने। नावमानात्कृतवती तवाहंविप्रबोधनम्। धर्म्मलोपो न ते विप्र! स्यादित्ये तन्मयाकृतम्। उवाच भार्यामित्युक्तो जरत्कारुर्म्महातःपा। [Page0893-a+ 38] ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम्। न मे वाग-नृतं प्राह गमिष्येऽहं भुजङ्गमे! समयो ह्येष मे पूर्ब्बंत्वया सह मिथः कृतः। सुखमस्म्युषितो भद्रे! ब्रूयास्त्वंभ्रातरं शुभे!। इतो मयि गते भीरु! गतः स भगवानिति। त्वं चापि मयि निष्क्रान्ते न शोकं कर्त्तुमर्हसि। इत्युक्तासाऽनवद्याङ्गी प्रत्युवाच मुनिं तदा। जरत्कारुं जर-त्कारुश्चिन्ताशोकपरायणा। वाष्पगद्गदया वाचा मुखेनपरिशुष्यता। कृताञ्जलिर्व्वरारोहा पर्यश्रुनयना ततः। धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता। न मामर्हसिधर्मज्ञां परित्यक्तुमनागसम्। धर्मे स्थितां स्थितो धर्मेसदा प्रियहिते रताम्। प्रदाने कारणं यच्च मम तुभ्यंद्विजोत्तम!। तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। मातृशापाभिभूतानां ज्ञातीनां मम सत्तम!। अपत्यमी-प्सितं त्वत्तस्तच्च तावन्न दृश्यते। त्वत्तोह्यपत्यलाभेन ज्ञा-तीनां मे शिवं भवेत्। संप्रयोगो भवेन्नायं मम मोघ-स्त्वया द्विज!। ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये। इममव्यक्तरूपं मे गर्भमाधाय सत्तम!। कथं त्यक्त्वा महात्मासन् गन्तुमिच्छस्यनागसम्। एवमुक्तस्तु स मुनिर्भार्य्यांवचनमब्रवीत्। यदुक्तमनुरूपञ्च जरत्कारुं तपोधनः। अस्त्ययं सुभगे! गर्भस्तव वैश्वानरोपमः। ऋषिः परमध-र्म्मात्मा वेदवेदाङ्गपारगः। एवमुक्त्वा स धर्मात्मा जरत्का-रुर्महानृपिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः”।
“ततः प्रववृधे गर्भो महातेजा महाप्रभः। यथा सोमोद्विजश्रेष्ठ! शुक्लपक्षोदितो दिवि। अथ काले तु सा ब्रह्मन्!प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयाप-हम्। ववृधे स तु तत्रैव नागराजनिवेशने। वेदांश्चाधि-जगे साङ्गान् भार्गवाच्च्यबनान्मुनेः। चीर्ण्णव्रतो बाल एवबुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत् ख्यातं लोकेष्वा-स्तीक इत्युत। अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेवतम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्”। भा॰ आ॰
४७ अ॰
“यो जरत्कारुणा जातो जरत्कारौमहायशाः। आस्तीकः सर्पसत्रेवः पन्नगान् योऽभ्यरक्षत। तं स्मरन्तं महाभागा! न मां हिंसितुमर्हथ। सर्पापसर्प-भद्रं ते गच्छ सर्प! महाविष!। जनमेजयस्य यज्ञान्तेआस्तीकवचनं स्मर। आस्तीकस्य वचः श्रुत्वा यः सर्पो ननिवर्त्तते। शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा” तत्रैव।
“आस्तीकस्य कवेः साधोः सुश्रूषापरमास्तिनः” भा॰आ॰
१५ अ॰ आस्तीकमधिकृत्य कृतोग्रन्थः अण्।
२ आस्ती-[Page0893-b+ 38] कचरिताख्यापके भारतान्तर्गते अवान्तरपर्व्वभेदे।
“पौष्यंपौलोममास्तीकमादिवंशावतारणम्” भा॰ आ॰
१ अ॰।
“आयुष्मानिदमाख्यानमास्तीकं कथयामि ते” भा॰ आ॰
१५ अ॰। आस्तीके भोजयेद्राजन्! दद्याच्चैव गुडौदनम्भा॰ स्वर्गा॰ प॰
६ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तीक¦ m. (-कः) The name of a Muni or saint, the son of JARATKA4RU, also a Muni: see आस्तिक। E. अस्ति and ठक् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तीक [āstīka], a. Relating to, or treating of, the sage आस्तीक. -कः N. of an old saint, son of Jaratkāru; (at whose intercession King Janamejaya spared the Nāga Takṣaka from the destruction to which he had doomed the serpent race). Mb. gives the following etymology of the name; नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत । अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ॥ cf. सर्पाप- सर्प भद्रं ते गच्छ सर्प वनान्तरम् । जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ -कम् A section (पर्व) of the first book of the Mahābhārata. -Comp. -अर्थदः N. of Janamejaya.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्तीक m. N. of a मुनि(the son of जरत्कारुand भगिनीजरत्कारु) MBh. Hariv.
आस्तीक mfn. relating to or treating of the मुनिआस्तिक
आस्तीक mfn. ( आस्तीकं पर्व, a section of the first book of the महा-भारत.)
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Āstīka : nt.: Name of the 5th parvan (also referred to as ākhyāna, kathā and purāṇa itihāsa) in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 34, 33, 70.
Described as great (mahad ākhyānam āstīkam) 1. 13. 4, and attractive (kathām etām manoramām/āstīkasya) 1. 13. 5; it comprises Adhyāyas 1. 13-53; in this sub-parvan we are told about the birth of the snakes and of Garuḍa, the churning of the milky ocean, the origin of Uccaiśravas; it provides the setting for the narration of the story of the Bhāratas to Janamejaya, son of Parikṣit, who was offering the snakesacrifice 1. 2. 73-74; according to some the Bhārata begins with the Āstīka (parvan) (manvādi bhārataṁ kecid āstīkādi tathāpare) 1. 1. 50; Ruru wanted to know the life story of Āstīka (āstīkacarita), and the narrative (ākhyāna) was told to him by his father Pramati 1. 12. 3, 5; the elders called it an ancient itihāsa which was narrated by Kṛṣṇa Dvaipāyana (Vyāsa) to the sages in the Naimiṣa forest (itihāsam imaṁ vṛddhāḥ purāṇaṁ paricakṣate) 1. 13. 6; narrated by Sūta Lomaharṣaṇa, pupil of Vyāsa, to the Brāhmaṇas at their request; his son Sūta Ugraśravas heard it from Lomaharṣaṇa and he, in turn, narrated it to Śaunaka 1. 13. 7-8, 45; Śaunaka again requested Sūta Ugraśravas to tell the story (kathā) of Āstīka in detail (saute kathaya tām etām vistareṇa kathāṁ punaḥ/āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ//) 1. 14. 1; the narrative of Āstīka confers long life (āyuṣyam idam ākhyānam āstīkam) 1. 14. 4; the ākhyāna of Āstīka, his life-story (carita), is exceedingly pious (dharmiṣṭha), increases merit (of the listener) (puṇyavardhana), and is illustrious (śrīmat); one who recites it or listens to it from the very beginning shall have no danger from the snakes 1. 53. 25-26.
_______________________________
*2nd word in left half of page p172_mci (+offset) in original book.
Mahabharata Cultural Index