आस्फोटा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्फोटा, स्त्री, (आस्फोटयतीति । आङ् + स्फुट् + अच् + टाप् ।) नवमल्ली । वनमल्ली । इति शब्द- रत्नावली ॥ (नवमल्लीशब्देऽस्या विशेषो ज्ञेयः ।)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस्फोटा स्त्री।
वनमल्ली
समानार्थक:आस्फोटा
2।4।70।1।3
भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा। शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
आस्फोटा स्त्री।
विष्णुक्रान्ता
समानार्थक:आस्फोटा,गिरिकर्णी,विष्णुक्रान्ता,अपराजिता
2।4।104।1।1
आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता