आहकज्वर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आहकज्वरः, पुं, (आहको नासारोग एव ज्वरः ।) नासारोगविशेषः । नासाज्वर इति ख्यातः । तस्य लक्षणम् । “तनुना रक्तशोथेन युक्तो नासापुटान्तरे । गात्रशूलज्वरकरः श्लेष्मणा ह्याहकः स्मृतः” ॥ इति वैद्यकम् ॥ (आहव इति क्वचिद्वैद्यके पाठः । तद्यथा, आहवज्वरस्य लक्षणम् । “शोथः सरक्तो नासायां व्यथास्रावौ ज्वरस्तथा । वातश्लेष्मासृगुत्थञ्च आहवाख्यं विनिर्द्दिशेत्” । अस्य चिकित्सा यथा, वैद्यकचिकित्सारत्ने ॥ “टूर्व्वाचव्यं फलं माषकुलत्थौ वंशपत्रिका । जलस्थलभवौ कर्णमोरटाखरमञ्जरी ॥ दण्डोत्पलस्य मूलानि क्वाथ्यादष्टगुणेऽम्भसि । तत्पादशेषिते तैलं तुलां कृत्वा विपाचयेत् । तत्तैलं प्रतिमर्षण आहवाख्यं ञ्वरं जयेत्” ॥ ॥ * ॥ दूर्व्वाद्यं तैलं ॥ * ॥)
