सामग्री पर जाएँ

आहारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आहारः, पुं, (आङ् + हृ + घञ् ।) द्रव्यगलाधः- करणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४ लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥ जमनं ८ विघषः ९ इति तट्टीका ॥ प्रत्यवसानं १० भक्षणं ११ अशनं १२ ॥ इति रत्नमाला ॥ अभ्यवहारः १३ स्वदनं १४ निगरः १५ । इति राजनिर्घण्टः ॥ अस्य गुणाः । सद्यस्तृप्तिजनकत्वं । बलकारित्वं । देहधारकत्वञ्च । इति राजवल्लभः ॥ (“तमुवाच भगवानात्रेयः । हिताहारोपयोग एक- एव पुरुषस्याभिवृद्धिकरो भवति । अहिताहारो- पयोगः पुनर्व्वाधिनिमित्तमिति” । “तमुवाच भगवानात्रेयः । यदाहारजातमग्नि- वेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति, विषमांश्च समीकरोतीत्येतद्धितं विद्धि त्वहितं विपरीतं इत्येतद्धिताहितलक्षणमनपवादम्भवति एवं वादिनञ्च भगवन्तमात्रेयमग्निवेश उवाच । भगवन्नन्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्ति । तमुवाच भगवानात्रेयः । येषां विदितमाहारतत्त्वमग्निवेश ! गुणतो द्रव्यतः कर्म्मतः सर्व्वावयवतो मात्रादयो भावास्तत्र तदेव- मुपदिष्टं विज्ञातुमुत्सहेरन् यथा तु खल्वेतदुप- दिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्ति तथैतदुपदेक्ष्यामः । मात्रादीन् भावानुदाहरन्त- स्तेषां हि बहुविधविकल्पा भवन्ति । आहारविधि- विशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्या- स्यामः । तद्यथा, आहारत्वमाहारस्यैकविधमर्था- भेदात् । स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् । द्विविधः प्रभावो हिताहितोदर्कविशेषात् । चतु- र्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् । षडा- स्वादो रसभेदतः षड्विधत्वात्” । इति चरकः ॥ “यदाहारगुणैः पानं विपरीतं तदिष्यते । अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च” ॥ इति च चरकः ॥ “प्राणिनां पुनर्मूलमाहारो बलवर्णौजसाञ्च षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः” ॥ “स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखकरश्च भवति” । “आहारः प्रीणनः सद्यो बलकृद्देहधारकः । आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः” ॥ इति सुश्रुतः ॥) स त्रिविधः । सात्विकः १ राज- सिकः २ तामसिकः ३ । सात्विकाहारो यथा, -- ८ श्लोकः । “आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक- प्रिया” । राजसिकारो यथा, ९ श्लोकः । “कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः” ॥ तामसिकाहारो यथा, १० श्लोकः । “यातयामं गतरसं पूतिपर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं मोजनं तामसप्रियम्” ॥ इति श्रीभगवद्गीता १७ अध्यायः ॥ आहरणं । इति मेदिनी ॥ (“स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया” । इति महाभारतम् । आदिपर्ब्बणि ७६ । सम्भव- पर्ब्बणि ७६ । ३५ ।)

"https://sa.wiktionary.org/w/index.php?title=आहारः&oldid=116421" इत्यस्माद् प्रतिप्राप्तम्