सामग्री पर जाएँ

आहार्य्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आहार्य्यम्, त्रि, (आङ् + हृ + ण्यत् ।) आगन्तुकं । इति त्रिकाण्डशेषः ॥ (“आहार्य्यैर्नीयमानं हि क्षणं दुःखेन हृद्यताम्” इति कामन्दकः ।) आहरणीयं ॥ (यथा, मनुः ८ । २०२ । “अथ मूलमनाहार्य्यं प्रकाशक्रयशो- धितः” ।) (शस्त्रकर्म्मभेदः । यथा सुश्रुते “तच्च शस्त्रकर्म्माष्टविधं, तद्यथा; -- छेद्यं भेद्यं, रेख्यं वेध्यं एष्यम्, आहार्य्यं, विश्राय्यं, जीव्यमिति” । “आहार्य्याशर्करास्त्रिस्रो दण्डकर्णमलास्मरी” ।)

"https://sa.wiktionary.org/w/index.php?title=आहार्य्यम्&oldid=116425" इत्यस्माद् प्रतिप्राप्तम्