आह्निक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आह्निकम्, त्रि, (अह्ना निर्वृत्तं । अहन् + ठञ् ।) दिननिर्व्वर्त्त्यं । दिनसाध्यं । इति मेदिनी ॥ दिन- सम्बन्धी ॥
आह्निकम्, क्ली, (अह्ना निर्वृत्तं । अहन् + ठञ् ।) भोजनं । प्रकरणसमूहः । ग्रन्थभागः । नित्यक्रिया । इति मेदिनीकरहेमचन्द्रौ ॥ अथ ~ रघुनन्दनभट्टाचार्य्यकृताह्निकाचारतत्त्वोक्त- कर्म्माणि संक्षेपेण लिख्यन्ते ॥ तत्र प्रथमयामार्द्धकृत्यम् । “ब्राह्मेमुहूर्त्ते जागरित्वा ब्रह्मविष्णुशिवनवग्रहान् स्मृत्वा गुरुप्रणामं कृत्वा आत्मानं ब्रह्मत्वेन संभाष्य तद्विवमकर्त्तव्यधर्म्मकर्म्मार्थं चिन्तयेत् ॥ ततः शयनादुत्याय स्मत्रिवासस्त्यक्त्व पृथिवीं ङ्गुष्ठे दक्षिणहस्तेन मन्त्रेण जलं दद्यात् ॥ ततो महीमार्जनाभावेऽशुचित्वादविलम्बमेव भो- जनपात्रमुद्धृत्य उच्छिष्टमपनीय तत् स्थानं गोमयो- दकाभ्यां सिञ्चेत् ॥ ततः सुस्थ आसने उपविश्य इष्टदेवतानाम स्मृत्वा अन्नजीर्णतार्थं मन्त्रपाठपूर्ब्बकवामहस्तेनोदरं परि- मृज्य पादशतव्रजनानन्तरं वामपार्श्वेन किञ्चित् कालं शयित्वा ताम्बूलादिमुखवासनद्रव्यं भोक्तव्यम् इति ॥ * ॥ अथ षष्ठसप्तमयामार्द्धकृत्यम् । इतिहासपुराणादिश्रवणम् ॥ अथाष्टमयामार्द्धकृत्यम् ॥ लौकिकचिन्ताकरणम् । सायंसन्ध्योपासनम् । इष्टदेवतास्मरणादिकञ्च कुर्य्यात् ॥ * ॥ अथ रात्रिकृत्यम् । सन्ध्यानन्तरमिष्टदेवतामन्त्रजपत्रिकालपाठ्यस्तव नारायणस्मरणानि कुर्य्यात् ॥ ततोऽन्नादिपाके जाते पूर्ब्बवद्वलिवैश्वदेवकर्म्मणी कृत्वा अतिथिलाभेऽन्नादिकं तस्मै दत्त्वा अवश्य- भरणीयैः सह सार्द्धप्रहराभ्यन्तरेऽनतितृप्तं भु- ञ्जीत । अन्नभोजनाभावे ताम्बूलादिकं भोक्तव्यम् ॥ प्रथमयामाभ्यन्तरे विद्याभ्यासं कुर्य्यात् ॥ ततः शयनं । शुचिदेशे खट्वोपरि शय्यां कृत्वा शिरो- देशे पूर्णकुम्भं निधाय रात्रिवासः परिधाय प्रक्षा- लितपाणिपादो द्विराचान्तः पूर्ब्बशिरा दक्षिण- शिरा वा पद्मनाभं स्मृत्वा यामद्वयाभ्यन्तरे शयीत ॥ * ॥ अथ दारोपगमनम् । ऋतौ निषिद्धेतरदिने स्त्रीसम्भोगं कृत्वा तां दक्षिणपार्श्वेन स्वापयेत् ॥ ततः अविलम्बेन मूत्रपुरीषोर्त्स्गवत् मृज्जलाभ्यां लिङ्गं हस्तौ पादौ च प्रक्षाल्य द्विराचम्य स्नायात् ॥ ऋतुभिन्नगमने तु लिङ्गप्रक्षालनमाचमनद्वयमात्रञ्च कुर्य्यात् । स्त्रियास्तु ऋतावनृतावपि लेपादिक्षा- लनानन्तरमाचमनमात्रं न स्नानं ॥ क्षालनादेः पूर्ब्बं मूत्रपुरीषोत्सर्गौ न कुर्य्यात् । सम्भोगानन्तरं तस्यां रात्रौ एकशय्यायां न शयीयातां । अनृता- वपि गर्भवत्त्वेऽपि कामुकीमुपेयात् ॥ ऋतावभिगम्य प्रातर्नैमित्तिकमङ्गशून्यस्नानं कु- र्य्यात् ॥ ऋतुगमनं पुत्त्रोत्पत्तिपर्य्यन्तमावश्यकम् ॥ इत्या- ह्निकाचारतत्त्वोक्तकर्म्म समाप्तं ॥ * ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आह्निक¦ त्रि॰ अह्नि भवः अह्ना निर्वृत्तं साध्यं ठञ्स्त्रियांङीप्।
१ दिनभवे
२ दिनसाध्ये च।
“भरद्वाजस्तु कौन्तेयकृत्वा स्वाध्यायमाह्निकम्” भा॰ त॰
१३
७ अ॰।
“अत्राह्निकंसुरश्रेष्ठोजपते समरुद्गणः” भा॰ व॰
१४
२ अ॰। दिनकर्त्त-व्यानि आह्निकतत्त्वे आह्निककृत्यप्रदीपादौ उक्तानि। दिवसकर्त्तव्यान्याचारशब्दे
६३
१ पृष्ठे उक्तप्रायाणि दिन-विभागेषु कर्त्तव्यभेदोदक्षेण संक्षेपात् दर्शितो यथा।
“प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने। तत्सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम्। उदयास्तमयं यावन्नविप्रः क्षणिकोभवेत्। नित्यनैमित्तिकैर्मुक्तः कामैश्चान्यैर-गर्हितैः। यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः। अज्ञानाद्यदि वा मोहात् स तेन पतितोभवेत्। दिवस-ख्याद्यभागे तु कृत्यं तस्योपदिश्यते। द्वितीये च तृतीये चचतुर्थे पञ्चमे तथा। षष्ठे च सप्तमे चैव अष्टमे च पृथक्पृथक्। विभागेष्वेषु यत्कर्म्म तत्प्रवक्ष्याम्यशेषतः। उषःकाले तु संप्राप्ते शौचं कृत्वा यथार्थवत्। ततःऽस्नानंप्रकुर्व्वीत दन्तधावनपूर्व्वकम्। अत्यन्तमलिनः कायोन-वच्छिद्रसमन्वितः। स्रवत्येष दिवा रात्रौ प्रातःस्नानं विशो-धनम् क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च। अङ्गानि समतां यान्ति उत्तमान्यधमैः सह। नानास्वेद-समाकीर्णः शयनादुत्थितः पुमान्। अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन। प्रातरुत्थाय योविप्रः प्रातः-स्नायी भवेत् सदा। समस्तजन्मजं पापं त्रिभिर्वर्षैर्व्यपो-हति। उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ। प्रा-जापत्येन तत्तुल्यं महापातकनाशनम्। प्रातःस्नानं प्र-[Page0906-a+ 38] शंसन्ति दृष्टादृष्टकरं हि तत्। सर्वमर्हति पूतात्मा प्रातः-स्नायी जपादिकम्। स्नानादनन्तरं तावदुपस्पर्शनमु-च्यते। अनेन तु विधानेन आचान्तः शुचितामियात्। प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम्। संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्। संहत्य तिसृभिःपूर्ब्बमास्यमेवमुपस्पृशेत्। ततः पादौ समभ्युक्ष्य अङ्गानिसमुपस्पृशेत्। अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्। अङ्गुष्ठनामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः। कनिष्ठा-ङ्गुष्ठेन नाभिं हृदयञ्च तलेन वै। सर्वाभिस्तु शिरः पश्चा-द्बाहू चाग्रेण सस्पृशेत्। सन्ध्यायाञ्च प्रभाते च मध्याह्नेच ततः पुनः। सन्ध्यां नोपासीत यस्तु ब्राह्मणोहि विशे-षतः। स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते। सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्म्मसु। यदन्यत् कुरुतेकर्म न तस्य फलमश्नुते। सन्ध्याकर्मावसाने तु स्वयंहो-मोविधीयते। स्वयं होमे फलं यत्तु तदन्येन न जायते। ऋत्विक् पुत्रोगुरुर्भ्राता भागिनेयोऽथ विट्पतिः। एभि-रेव हुतं यत्तु तद्धुतं स्वयमेव हि। देवकार्य्यं ततः कृत्वागुरुमङ्गलवीक्षणम्। देवकार्य्याणि पूर्वाह्णे मनुष्याणाञ्चमध्यमे। पितॄणामपराह्णे च कार्य्याण्येतानि यत्नतः। पौर्वाहिणकन्तु यत् कर्म यदि तत् सायमाचरेत्। न तस्यफलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा। दिवसस्याद्यभागे तुसर्वमेतद्विधीयते। द्वितीये च तथा मागे वेदाभ्यासोवि-धीयते। वेदाभ्यासोहि विप्राणां परमं तपौच्यते। ब्रह्म-यज्ञः स विज्ञेयः षडङ्गसहितस्तु सः। वेदस्वीकरणं पूर्बंविचारोऽभ्यसनं जपः। ततोदानञ्च शिष्येभ्योवेदाभ्या-सोहि पञ्चधा। समित्पुष्पकुशादीनां स कालः समुदा-हृतः। तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम्। पितामाता गुरुर्भार्य्या प्रजा दीनाः समाश्रिताः। अभ्यागतोऽ-तिथिश्चान्यः पोष्यवर्गौदाहृतः। ज्ञातिर्बर्न्धुजनः क्षीणस्त-थाऽनाथः समाश्रितः। अन्येऽप्यधनयुक्ताश्च पोष्यवर्गौदा-हृतः। भरणं पोष्यवर्गस्य प्रशस्तं खर्गसाधनम्। नरकंपीडने चास्य तस्माद्यत्नेन तं भरेत्। सार्वभौतिकमन्नाद्यंकर्त्तव्यन्तु विशेषतः। ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकंव्रजेत्। स जीवति यएवैकोबहुभिश्चोपजीव्यते। जीवन्तो-मृतकाश्चान्ये य आत्मम्भरयो नराः। वह्वर्थे जीव्यते कै-श्चित् कुटुम्बार्थे तथा परैः। आत्मार्थेऽन्योन शक्नोति स्वो-दरेणापि दुःखितः। दीनानाथविशिष्टेभ्योदातव्यं भूतिमि-च्छता। अदत्तदाना जायन्ते परभाग्योपजीविनः। यद्द-[Page0906-b+ 38] दाति विशिष्टेभ्योयज्जुहोति दिने दिने। तत्तु वित्तमहमन्ये शेषं कस्यापि रक्षति। चतुर्थे च तथा भागे स्नानार्थंमृदमाहरेत्। तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले। नित्यं नैमित्तिकं काम्य त्रिविधं स्नानमुच्यते। तेषां मध्येतु यन्नित्यं तत्पुनर्भिद्यते त्रिधा। मलापहरणं पश्चा-न्मन्त्रवत्तु जले स्मृतम्। सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदाःप्रकीर्त्तिताः। मार्जनं जलमध्ये तु प्राणायामोयतस्ततः। उपस्थानं ततः पश्चात् सावित्र्याजपौच्यते। सविता देबतायस्या मुखमग्निस्त्रिधा स्थितः। विश्वामित्रऋषिश्छन्दोगा-यत्री सा विशिष्यते। पञ्चमे च तथा भागे संविभागोय-थार्हतः। पितृदेवमनुष्याणांकीटानाञ्चोपदिश्यते। देवैश्चैवमनुष्यैश्च तिर्यग्भिश्चोपजीव्यते। गृहस्थः प्रत्यहं यस्मा-त्तस्माज्ज्येष्ठाश्रमी गृही। त्रयाणामाश्रमाणान्तु गृहस्थोयोनिरुच्यते। तेनैव सीदमानेन सीदन्तीहेतरे त्रयः। मूलप्राणोभवेत् स्कन्धः स्कन्धाच्छाखाः सपल्लवाः। मूलेनैवविनष्टेन सर्वमेतद्विनश्यति। तस्मात् सर्व्वप्रयत्नेन रक्षित-व्योगृहाश्रमी। राज्ञा, चान्यैस्त्रिभिः पूज्योमाननीयश्चसर्व्वदा। गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी। न चैव पुत्रदारेण स्वकर्मपरिवर्जितः। अस्नात्वा चाप्यहुत्वाचाजप्त्वाऽदत्त्वा च मानवः। देवादीनामृणी भूत्वा नरकंप्रतिपद्यते। एकएव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते। न भुज्यते सएवैकोयोभुङ्क्तेऽन्नं ससाक्षिणा। विभागशीलोयोनित्यं क्षमायुक्तोदयापरः। देवतातिथिभक्तश्च गृहस्थःस तु धार्म्मिकः। दया लज्जा क्षमा श्रद्धा प्रज्ञा योगःकृतज्ञता। एते यस्य गुणाः सन्ति स गृही मुख्यौच्यते। स विभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत्। भुक्त्वा तुसुखमास्थाय तदन्नं परिणामयेत्। इतिहासपुराणाद्यैःषष्ठञ्च सप्तमं नयेत्। अष्टमे लोकयात्रा तु बहिःसन्ध्याततः पुनः। होमोभोजनकञ्चैव यच्चान्यद्गृहकृत्यकम्। कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाहरेत्। प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत्। यामद्वयं शयानोहिब्रह्मभूयाय कल्पते। नैमित्तिकानि काम्यानि निपतन्तियथा यथा। तथा तथैव कार्य्याणि न कालस्तु विधीयते। अस्मिन्नेव प्रयुञ्जानोह्यस्मिन्नेव तु लीयते। तस्मात् सर्ब्ध-प्रयत्नेन कर्त्तव्यं सुखमिच्छता। सर्वत्र मध्यमौ यामौ हु-तशेषं हविश्चयत्। भुञ्जानश्च शयानश्च ब्राह्मणोनावसीदति” अह्ना पाठ्यम् ठञ्।
३ सूत्रात्मकशास्त्रभाष्यस्य पादांश-व्याख्याभेदे न॰। यथा कणादगौतमपाणिनिसूत्रभाष्यस्य[Page0907-a+ 39] पादांशव्याख्यारूपाणि अह्ना पाठ्यत्वात् आह्निकानि
“तमधीष्टोभृतो भूतोवेति” पा॰ ठञ्। दिवसे--सत्कृत्य-नियोजिते
३ अध्यापके
४ भृते वेतनेन क्रीते दासादौ
५ भूते स्वसत्तया व्याप्ते ज्वरादौ च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आह्निक¦ mfn. (-कः-की-कं) Daily, diurnal, of or belonging to a day. n. (-कं)
1. Constant occupation, daily work.
2. The division or section of a book.
3. Food. E. अहन् a day, and ठक् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आह्निक [āhnika], a. (-की f.) [अह्नि भवः, अह्ना निर्वृत्तः साध्यः ठञ्]
Daily, diurnal, performed every day or on a day; संग्रामाद्वयपयातव्यमेतत्कर्म ममाह्निकम् Mb.6.19.27. आह्निकः स्वाध्यायः daily course of study; ˚आचारः daily observances.
Employed or occurring every day (as a teacher, servant, or fever).
कम् Any religious rite or duty which is to be performed every day at a fixed hour; अत्राह्निकं सुरश्रेष्ठो जपते Mb.
Anything to be performed daily, such as taking meals, bathing &c.; प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः Rām.7.82.5. कृताह्निकः संवृत्तः V.4; समुद्रे कृताह्निकः Mv.5.
Daily food.
Daily work or occupation, what may be read on one day.
A division of a work (such as that of the Mahābhāṣya). -चन्द्रिका, -दीपिका, -प्रदीप, -मञ्जरी &c. N. of works.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आह्निक mfn. performed or occurring in the day-time , diurnal MBh.
आह्निक mfn. performed or done or occurring every day , daily R. etc.
आह्निक n. a religious ceremony to be performed every day at a fixed hour MBh. R.
आह्निक n. a day's work
आह्निक n. what may be read on one day
आह्निक n. division or chapter of a book
आह्निक n. constant occupation , daily work
आह्निक n. daily food etc. L.
आह्निक n. N. of several works.
