सामग्री पर जाएँ

आह्वय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वयः, पुं, (आङ् + ह्ने + अच् । यद्वा आह्वैर्यायते प्राप्यते इति । आह्व + या + घञ्र्थे कः ।) नाम । इत्यमरः ॥ (यथा, रामायणे, बालकाण्डे ४ । ७ ॥ “कृत्वा तु तन्महाप्राज्ञः काव्यं रामायणाह्वयम्” ।) अष्टादशव्यवहारपदान्तर्गतो व्यवहारविशेषः । यथाह मनुः अष्टमे । ४ । ५ । ६ । ७ । “तेषामाद्यमृणा- दानं” इत्थुपक्रम्य । “स्त्रीपुंधर्म्मो विभागश्च द्यूत- माह्वय एव च” ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वय पुं।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।7।2।5

समस्या तु समासार्था किंवदन्ती जनश्रुतिः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥

पदार्थ-विभागः : नाम

आह्वय पुं।

वृद्ध्याख्यौषधिः

समानार्थक:वृद्धि,आह्वय

2।4।112।2।6

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वय¦ पु॰ आह्वैर्यायते प्राप्यते या--घञर्थे क

३ त॰।

१ नामनि आह्वायकैर्हि नामोच्चारणेनैव आहूयते इतिआह्वायकत्वप्राप्तौ नाम्न करणत्वात्तथात्वम्। आ + ह्वे बा॰करणे श इत्यन्ये
“काव्यं रामायणाह्वयम्,” रामा॰। गजाह्वयं शताह्वयं नागाह्वयम् इत्यादि।

२ प्राणिभिर्मेषा-दिभिः सपणद्यूतभेदे च सचाष्टादशविवादान्तर्गतः।
“तेषा-माद्यमृणादानम्” इत्युपक्रम्य
“द्यूतमाह्वयएव च। पदा-न्यष्टादशैतानि व्यवहारस्थिताविहेति” मनूक्तेः। अस्यसम्-पूर्ब्बकतापि
“अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यतेप्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः” मनुना तथाप्रयोगात् तत्स्वरूपमुक्तं मिता॰ नार॰
“अक्षबध्नशला-काद्यैर्देवनं जिह्यकारितम्। पणक्रीडा वयोभिश्च पदंद्यूतसमाह्वयम्” व्याख्यातञ्च मिता॰ यथा
“अक्षाःपाशकाः बध्नश्चर्म्मपट्टिका शलाका दन्तादिमय्यो दीर्घचतु-रस्राः आद्यग्रहणात् चतुरङ्गादिक्रीडासाधनकरितुरगा-दिकं गृह्यते। तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्व्विका-क्रियते तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिःचशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडाक्रियते तदुभयं द्यूतसमाह्वयाख्यं विवादपदम्। द्यूतञ्चसमाह्वयश्चद्यूतसमाह्वयम्। तत्प्रकारः तत्रैव दर्शितो यथा।
“तत्र द्यूतसभाधिकारिणो वृत्तिमाह।
“ग्लहे शतिकवृद्धेस्तुसभिकः पञ्चकं शतम्। गृह्णीयाद्धूर्तकितवादितराद्दशकं श-तम्” या॰। परस्परं सम्प्रतिपत्त्या कितवैः परिकल्पितः

११ वा॰ भाग

२ [Page0907-b+ 38] पणोग्लह इत्युच्यते। तत्र ग्लहे तदाश्रया शतिका शतप-रिमितादधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिःद्धूर्तकितवात्पञ्चकंतस्मा शतमात्मवृत्यर्थं सभिको गृह्णीयात्। पञ्च पणाआयो यस्मिन् शते तच्छतं पञ्चकं
“तदस्मिन्वृद्ध्यायलाभेत्यादिना” (पा॰)कन्। जितस्य ग्लहस्यविंशतितमम्भागं गृह्णीयादित्यर्थः। सभा कितवनिवासार्थायस्यास्त्यसौ (ठन्) सभिकः कल्पिताक्षादिनिखिलक्रीडोप-करणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते। इतरस्मात्पुनरपरिपूर्णशतिकवृद्वेःकितवाद्दशकं शतञ्जितद्रव्यस्यदशमम्भागं गृह्णीयादिति यावत्। एवंकॢप्तवृत्तिनासभिकेन किङ्कर्तव्यमित्यत आह।
“स सम्यक्पालितीदद्याद्राज्ञे भागं यथा कृतम्। जितमुद्ग्राहयेज्जेत्रे दद्या-त्सत्यं वचःक्षमी” या॰। यएवं कॢप्तवृत्तिर्द्यूताधिकारीसराज्ञा धूर्त्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा कृतंसम्प्रतिपन्नमंशन्दद्यात्। तथा जितं यत् द्रव्यन्तदुद्ग्राह-येद्बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेदु-द्धृत्य च तद्धनं जेत्रे जयिने सभिकोदद्यात्। तथा क्षमीभूत्वा सत्यञ्च वचोविश्वासार्थं द्यूतकारिणां वदेत्। तदुक्तन्नारदेन।
“सभिकः कारयेद्यूतन्देयन्दद्याच्च यत्कृतमिति”। यदा पुनः सभिकोदापयितुन्न शक्नोति तदा राजादापयेदित्याह।
“प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले। जितं ससभिके स्थाने दापयेदन्यथा न तु” या॰। प्रसिद्धेऽप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कित-वसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितव-मविप्रतिपन्नं जितम्पणन्दापयेत्। अन्यथा प्रच्छन्ने सभि-करहिते अदत्तराजभागे द्यूते जितम्पणञ्जेत्रे न दापयेत्। जयपराजयविप्रतिपत्तौ निर्णयोपायमाह।
“द्रष्टारो व्यव-हाराणां साक्षिणश्च तएव हि” या॰। द्यूतव्यवहाराणांद्रष्टारः सभ्यास्तएव कितवाएव राज्ञा नियोक्तव्याः नपुनःश्रुताध्ययनसम्पन्ना इत्यादिनियमोऽस्ति। साक्षिणश्चद्यूते द्यूतकाराएव कार्य्याः न वा तत्र स्त्रीबालवृद्धकितवेत्या-दिनिषेधोऽस्ति। क्वचित् द्यूतन्निषेद्धुन्दण्डमाह।
“राज्ञासचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या॰। कूटैरक्षा-दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिनाये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वा-सयेत्। नारदेन निर्वासने विशेष उक्तः।
“कूटाक्षदेविनःपापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासञ्ज्यसह्येषां विनयः स्मृत” इति। यानि च मनुवचनानि द्यू-[Page0908-a+ 38] तनिषेधपराणि
“द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेतवा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभि-करहितद्यूतविषयतया च योज्यानि। किञ्च
“द्यूत-मेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या॰। यत्पूर्वोक्तंद्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्कर-ज्ञानकारणात् तस्करज्ञानरूपम्प्रयोजनम्पर्य्यालोच्य। प्रायशः चौर्यार्जितधना एव कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्य्यम्। द्यूतधर्म्मं समाह्वयेऽति-दिशन्नाह।
“एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये” या॰। ग्लहे शतिकवृद्धेरित्यादिना योद्यूते धर्म्म उक्तःसएव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसज्ञकेज्ञातव्यः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वय¦ m. (-यः)
1. A name or appellation.
2. A lawsuit arising from a dispute about games with animals, as cock-fighting, &c. E. आङ् before ह्वेञ् to call, अच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वयः [āhvayḥ], 1 A name, appellation (as last member of comp.); काव्यं रामायणाह्वयम् Rām.; चक्रसाह्वयम्, चरणाह्वयाः; वृद्धेरप्याह्वया इमे Ak.

A law-suit arising from a dispute about games with animals, as cock-fighting &c.; (one of the 18 titles of law); पणपूर्वकपक्षिमेषादि- योधनं आह्वयः Rāghavānanda on Ms.8.7.इ

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आह्वय/ आ-ह्वय m. a lawsuit arising from a dispute about games with animals (as cock-fighting etc. ) Mn. viii , 7

आह्वय/ आ-ह्वय m. appellation , name (generally ifc. e.g. रामायणा-ह्वयं काव्यम्, etc. ) MBh. Ragh. Sus3r. Katha1s. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--one of the names in the third मरुत्गण। वा. ६७. १२६. [page१-182+ २५]

"https://sa.wiktionary.org/w/index.php?title=आह्वय&oldid=426267" इत्यस्माद् प्रतिप्राप्तम्