सामग्री पर जाएँ

इदावत्सर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इदावत्सरः, पुं, (इदा इति वत्सरः ।) संवत्सरादि- पञ्चान्तर्गतवत्सरविशेषः । अस्मिन् वत्सरे अन्न- वस्त्रदानं महाफलम् । इति विष्णुधर्म्मोत्तरम् ॥ (“संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोसीद्वत्- सरोऽसि” । इति वाजसनेयीसंहिता । २७ । ४५ ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इदावत्सर¦ पु॰ इदाचिह्नितः वत्सरः। वत्सरपञ्चकान्त-र्गते वत्सरभेदे तदानयनप्रकारो यथा
“शकाङ्कात् पञ्च-भिःशेषात् समाद्याद्यास्तु वत्सराः। सपरीदानुपूर्व्यास्तेतथोदापूर्ब्बका मताः” ज्यो॰ तथा च एकाङ्के शिष्टे सवत्सरः,द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः,पञ्चाङ्के शिष्टे उदावत्सरः। तेषां फलन्तु मल॰ त॰ विष्णु-ध॰।
“संवत्सरे तथा दानं तिलस्य तु महाफलम्। परि-पूर्व्वेतथा दानं यवानाञ्च द्विजोत्तम!। इदापूर्व्वेऽन्नव-स्त्राणां धान्यानाञ्चानुपूर्ब्बके। उदासंवत्सरे दानं रजतस्यमहाफलम्” उदावत्सरस्थाने इद्वत्सरोऽपि
“परिवत्स-रोऽसीदावत्स{??}ऽसीद्वत्सरोऽसि” राज॰ श्रु॰
“नभोमण्डलंसह द्या{??}वृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीत तंकालं लवत्सररं परिवत्सरमिदावत्सरमनुवत्सरमुद्व-[Page0927-a+ 38] त्सरमिति भानोर्मान्द्यशैघ्य्रसमागतिभिः समामननन्ति” भाग॰

५ स्क॰।
“मण्डलाभ्यां चन्द्रार्कमण्डलाभ्यां सह-भुञ्जीतेति तेन यदा सूर्य्यस्य शुक्लप्रतिपदि संक्रान्तिर्भवतितदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्स-रः। ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्र-मानेन च षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरग्रप-श्चाद्भावो भवति एवं पञ्च वर्षाणि गच्छन्ति तत्र द्वौ मल-मासौ भवतः। ततः पुनः षष्ठः संबत्सरः” श्रीधरः। तथा च समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरःचान्द्रसौरमासयोरारम्भे समत्वपरिवर्ज्जितमासारब्धोवत्सरः परिवत्सरः। इद् इत्थं परिवत्, आरम्भेसमत्वपरिवर्ज्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान्वत्सरः इदावत्सरः। अनुगतः सौरसंक्रान्तिं चान्द्रो-मासो यत्र तादृशोवत्सरः अनुवत्सरः। अस्य वर्षस्या-सक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेनतथात्वम्। उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनःसमकालारम्भागतिमांश्च योवत्सरः स उदावत्सरः। अ-स्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव। एवमेषामन्वर्थकता द्रष्टव्या। पञ्चमवर्षे मलमासद्वय-पातकथनभपि
“पञ्चमे षञ्चमे वर्षे द्वौ मासावधिमासकौ। तेषां कालातिरेकेण ग्रहाणामतिचारतः” एतच्च प्रायिकं
“द्वात्रिंशद्भिर्गतैर्मासैः दिनैः षीडशभिस्तथा। घटिकानांचतुष्केण पतति ह्यधिमासकः” काल॰ धृतसिद्धान्तवाक्यात्तेन प्रागुक्तभारतवाक्यं
“मलमासः स विज्ञेयोमासेत्रिंशत्तमे भवेदिति” काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रो-क्तमध्यमानमाश्रित्यैव। सिद्धान्तवाक्यं तु स्फुटमानमा-श्रित्येत्यनयोरविरोधः। एवमेव माधवादयः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इदावत्सर/ इ-दा--वत्सर m. (originally perhaps) " the present or current year "

इदावत्सर/ इ-दा--वत्सर m. one of the names given to the single years of a period of five years

इदावत्सर/ इ-दा--वत्सर m. one of the five years in which gifts of clothes and food are productive of great rewards AV. VS. MaitrS. etc. (528824 इदावत्सरीय, mfn. belonging to such a year Comm. on Pa1n2. इदु-वत्सरand इद्-वत्सर= इदा-वत्सरabove. इद्-वत्सरीय= इदावत्सरीयabove.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इदावत्सर न.
यह साल, वर्तमान संवत्सर, मा.श्रौ.सू. 1.6.4.21।

"https://sa.wiktionary.org/w/index.php?title=इदावत्सर&oldid=491784" इत्यस्माद् प्रतिप्राप्तम्