सामग्री पर जाएँ

इन्दीवरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्दीवरम्, क्ली, (इन्दी लक्ष्मीस्तस्याः वरं प्रियं ।) नील- पद्मं । तत्पर्य्यायः । नीलाम्बुजन्म २ । इत्यमरः । कुवलयं ३ नीलाब्जं ४ नीलोत्पलं ५ । इति रत्न- माला ॥ (“इन्दीवरेण नयनं मुखमम्बुजेन” । इति कालिदासः । “इन्दीवरश्यामतनुर्नृपोऽसौ” । इति रघुः । ६ । ६५ ।) (नीलोत्पलशब्देऽस्यगुणादयो ज्ञेयाः ।)

"https://sa.wiktionary.org/w/index.php?title=इन्दीवरम्&oldid=116628" इत्यस्माद् प्रतिप्राप्तम्