इन्दुव्रत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्दुव्रतम्, क्ली, (इन्दवे इन्दुलोकार्थं वा व्रतं ।) चान्द्राय- णव्रतं । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते ॥) (“इन्दुव्रतसहस्रं तु यश्चरेत् कायशोधनम् । पिबेत् यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्दुव्रत¦ न॰ इन्दुलोकप्राप्त्यर्थं व्रतम् शाक॰ त॰। चान्द्रायणेव्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानु-सारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत् प-ञ्चविधं तत्स्वरूपविभागादि प्रा॰ वि॰ दर्शितं यथा।
“एकैकं ह्रासयेत् पिण्ड कृष्णे, शुक्ले च बर्द्धयेत्। उपस्पृशं-स्त्रिषवणमेतच्चान्द्रायणञ्चरेत्। एतदेव विधिं कृत्वा आच-रेत् यवमध्यमे। शुक्तपक्षादि नियतश्चरेच्चान्दायणव्रतम्”। [Page0939-b+ 38]
“अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते। निय-तात्मा हविष्यस्य यतिचान्द्रायणञ्चरन्। चतुरः प्रातर-श्नीयात् पिण्डान् विप्रः समाहितः। चतुरोऽस्तमितेसूर्य्ये शिशुचान्द्रायणं व्रतम्। अष्टावष्टौ समश्नीयात्पिण्डान्मध्यदिने गते। मासेनाश्नन् हविष्यस्य चन्द्रस्यैतिसलोकताम्” मनुः। एतत् पञ्चविधं चान्द्रायणम् पि-पीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतो-मुखं शिशुसंज्ञञ्च। यथाह जावालः
“षिपीलिकायव-मध्यं यतिचान्द्रायणन्तथा। चान्द्रायणन्तथा ज्ञेयं चतुर्थंसर्वतोमुखम्। पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलो-दयम्”। कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदापिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रा-मावास्यायामभोजनं कृष्णप्रतिपदि चतुर्द्दशग्रासभोजना-रम्भे ह्रासक्रमेण चतुर्द्दश्यामेकग्रासः अमावास्यायः-मभोजनम् एवं प्राप्नोति तथा च वसिष्ठः।
“मासस्यकृष्णपक्षादौ ग्रासानद्याच्चतुर्द्दश”। नन्वेवं क्रमेण पञ्चविंश-त्युत्तरं ग्रासशतद्वयं स्यात् न चत्वारिंशद्ग्रासाधिकं शतद्व-यम् तच्च याज्ञवल्क्येनोक्तम्”
“यथा कथञ्चित् पिण्डानाञ्च-त्वारिंशच्छतद्वयमिति”।
“यथा कथञ्चित् पिण्डानां तिस्रो-ऽशीतीः समाहितः” इति मनुनाप्युक्तम्। उच्यते संयम-दिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोज-नेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदंव्रतम् न प्रतिपदादिकं चतुर्द्दश्यामेव व्रतसङ्कल्पः। यथाह गोतमः पौर्ण्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकै-कोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम्” शङ्खलिखितौ
“अमावस्यायां व्रतोपायनं यवमध्यम् अमावस्यायां पञ्च-दश पिण्डानश्नीयात्” उपायनमारम्भः। युक्तञ्चेदम्अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्य्यप्रविष्ट-त्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्दवाच्यत्वात्। जावालः
“एकैकं वर्द्धयेग्रासं शुक्ले कृष्णेच ह्रासयेत्। अमावस्यां न भुञ्जीत यवमध्यञ्चरन् द्विजः। एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्द्धयेत्। पौर्ण्णमास्यांन भुञ्जीत पिपीलितनुमध्यमम्”। अत्र कल्पतरुव्याख्या-नम्। एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रास-मारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरंशुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्द्दस्यां पञ्चदशग्रासाः सम्पद्यन्ते पौर्ण्णमास्याञ्चोपवास इति” पिपोलिका[Page0940-a+ 38] तनुमध्यं चान्द्रायणम्”। ऋषिचान्द्रायणमाह यमः
“त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्”। अत्रचत्वारिंशच्छतद्वयसंख्या नास्ति। ग्रासपरिमाणमाह परा-शरः
“कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम्। एवं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्”। सकलचन्द्रायण एव चतुर्द्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यांसंयमः कार्य्यः। यथा बौधायनः
“शुक्लां चतुर्द्दशीमुप-वसेत् कृष्णचतुर्द्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा” इत्याद्यभिधाय
“तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान्” विस्तरभयान्न लिखितम्। अत्र सामान्यव्रतधर्म्मः कर्त्तव्यः। विशेषमाह यमः
“आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रंन पीडयेत्। अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभि-मन्त्रयेत्। भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत्। आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्ज्जयेत्। असुराणांहि तत् पात्रं पानपात्रमचक्रजम्” अचक्रजं कुलालचक्रा-निष्पन्नम्। अपरे धर्म्मा बौधायनादिषु द्रष्टव्याः। तेनएकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम्”। या॰ स्मृ॰।
“तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मि-तान्। एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणंचरन्। यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम्। मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्। कुर्य्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा। अनादिष्टेयु पापेषुशुद्धिश्चान्द्रायणेन तु। धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलो-कताम्” अत्र (
२४
० ) ग्राससंख्योक्तेर्मध्ये नोपवास इतिप्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्द्धनेनभक्षणे
“सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिता-ख्येति” लीला॰ उक्तदिशा (
१२
० ) ग्राससंख्या, पुनः कृष्णेह्रासेन तथैव संख्येति (
२४
० ) भोज्यग्राससंख्या। तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्दुव्रत¦ n. (-तं) A religious observance depending on the age of the moon; diminishing the quantity of food by a certain portion daily, for a fortnight or a month, &c. E. इन्दु and व्रत a religious obligation.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्दुव्रत/ इन्दु--व्रत n. a religious observance depending on the age of the moon (diminishing the quantity of food by a certain portion daily , for a fortnight or a month , etc. ) MBh. (See. चान्द्रायण.)
