इन्द्रजाल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रजालम्, क्ली, (इन्द्राणामिन्द्रियाणां जालं आव- रकम् । यद्वा इन्द्रस्य परमेश्वरस्य जालं माया इव ।) मायाकर्म्म । भोजवाजि, भेल्कि इत्यादि भाषा । तत्पर्य्यायः । कुहकं २ जालं ३ कुसृतिः ४ । तद्विवरणग्रन्थो यथा, -- “अथातः संप्रवक्ष्यामि चेन्द्रजालमनुत्तमम् । व्याधिदारिद्रहरणं जरामृत्युविनाशनम् ॥ इन्द्रस्य यो न जानाति जालेशं रुद्रभाषितम् । निग्रहानुग्रहे तस्य का शक्तिः परमेश्वरि ! ॥ न तेषां जायते सिद्धिर्गोत्रे क्षेत्रे गृहेऽपि वा । इन्द्रजालं न जानाति स क्रुद्धः किं करिष्यति ॥ न जीवति वरारोहे संसारे दुःखसागरे । इन्द्रजालं न जानाति कुतः सौख्यं भवेत्ततः ॥ कौतूहलं कुतस्तेषां कुतः कामा वरानने ! । संसारसागरे घोरे कामलुब्धाश्च मानवाः । रुद्रकर्म्म न हि तेषां कुतः सौख्यं विधीयते ॥ यथा नदौनदाः सर्व्वे सागरे समुपागताः । तथा सर्व्वाणि शास्त्राणि इन्द्रजालस्थितानि च ॥ तप्तानाञ्च यथा भानुः शीतलानां यथा शशो । गम्भीराणां यथा सिम्धुर्जालेन्द्रञ्च तथा प्रिये ! । तथा किं बहुनोक्तेन वर्णनेन पुनः पुनः । जालेन्द्रस्य समं शास्त्रं न भूतं न भविष्यति” ॥ * ॥ “अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे । येन विज्ञानमात्रेण सर्व्वसिद्धिर्भविष्यति ॥ महाकालस्य वीजानि प्रस्थमेकं समाहरेत् । अथवा मधुकं दारु शुद्धक्षीरेण संपिबेत् ॥ १० ॥ क्षौद्रं वृषं चन्दनसिन्धुजातं महेन्द्रराजं पयसा सुपिष्टम् । गर्भं क्षरन्तं प्रतिहन्ति शीघ्रं योगो विभुञ्जन् किल मूलदैवैः” ॥ इति इन्द्रजाले गर्भस्रावचिकित्सा ॥ * ॥ अथ गर्भशुष्कम् । “गोक्षीरं शर्करायुक्तं गर्भशुष्कप्रशान्तये । पिबेद्वा मधुकं चूर्णं गाम्भारीफलचूर्णकम् ॥ समांसं गव्यदुग्धेन गर्भिणी च प्रशान्तये” ॥ * ॥ अथ सुखप्रसवयोगः । “श्वेतं पुनर्णवामूलं चूर्णं योनौ प्रवेशयेत् । तत्क्षणात् प्रसूते नारी गर्भे सति प्रपीडिते ॥ वासकस्य तु मूलन्तु चोत्तरस्थं समुद्धरेत् । कट्यां बद्ध्वा सप्तसूत्रैः सुखं नारी प्रसूयते ॥ सहदेव्याश्च मूलं वा कटिस्थं प्रसवेत् सुखम् । अपामार्गस्य मूलन्तु ग्राहयेच्चतुरङ्गुलम् ॥ द्वारि प्रवेशयेत् योनौतत्क्षणात् सा प्रसूयते” ॥ * ॥ अथ स्तनवर्द्धनं स्तनोत्थापनञ्च । “तैलं वचादाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम् । नारीकुचौ चारुतरौ सुपीनौ कुर्य्यादसौ योगवरः प्रदिष्टः ॥ श्रीपर्णिकाया रसवल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम् । तुलेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितोऽपि नार्य्याः ॥ प्रथमकुसुमकाले नस्ययोगेन पीतं सनियमममरास्यं तण्डलाम्भो युवत्याः । कुचयुगलसुपीनं क्वापि नो याति पातं कथित इति पुरैव चक्रदत्तेन योगः” ॥ * ॥ अथ योनिसंस्कारः । “प्रक्षालयेन्निम्बुकषायनीरैः स्विन्नाज्यकृष्णागुरुगुग्गुलानां । धूपेन योनिं निशि धूपयित्वा नारी प्रमीदं विदधातु भर्त्तुः” ॥ * ॥ अथ लोमशातनम् । “पलाशभस्मान्विततालचूर्णै- रम्भाम्बुमिश्रैः परिलिप्य भूयः । कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव” ॥ इति इन्द्रजालतन्त्रसंग्रहः ॥ युद्धे क्षुद्रोपायविशेषः । इति हेमचन्द्रः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रजाल¦ न॰ इन्द्रेण कौशलाद्यैश्वर्य्येण जालं द्रष्टुर्नेत्रावरणंयथास्थितवस्तुदर्शनाक्षमत्वसाधनात्, इन्द्रस्य परमेश्वरस्यजालं भायेव वा। मन्त्रौषधादिना अन्यथास्थितस्यवस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी)
१ पदार्थे
२ मायारूपे जाले च।
“अतएव महान्तोऽस्याः प्रवदन्ती-द्रजासताम्। एतस्मात् किमिवेन्द्रजालमपरं यद्गर्भवास{??}रेतश्चेत तिहस्त मस्तकपदप्रोद्भूतनानाङ्कुरम्। पर्य्यायेण शि-शुत्वयौ{??}जरावेशैरनेकैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति तथागच्छत्यथागच्छ। देहवद्वटधानामौ सुविचार्य्यावलोक्यताम्। क्व धानाः क्व च वा वृक्षत्मामान्मायेति निश्चिन्” प॰ द॰
“स्थूणाकणन्द्रजालञ्च सौरञ्चापि तथार्ज्जुनः। आग्नेयञ्चापि सौम्यञ्च ससर्ज कुरुदनन्दनः” भा॰व॰
२७
४ अ॰। इन्द्रेण इन्द्रकृतेन योगविशेषेण जालम्।
३ क्षद्रोपायभेदे च। इन्द्रजालञ्च द्रव्यविशेषसंयोगेनअद्धुतवस्तुदर्शकव्यापारः (किमष्टरि) इति संलण्डभाषाप्रसिद्धः मन्त्रद्रव्यविशेषेण वस्तुनोऽन्यथा करणव्व। तच्चदत्तात्रेयतन्त्रे मन्त्रविशेषसाध्यम् विस्तरणाभिहितम्। इन्द्रजालतन्ये तु ओषधिविशे ण तथाचरणं यदुक्तंततोदिङ्मात्रं प्रदर्श्यते।
“अथातः संप्रवक्ष्यामि चेन्द्र-जालमनुत्तमम्” इत्युपक्रम्य
“अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे! येन विज्ञा-नमात्रेण सर्व्वसिद्धिर्भविष्यति। महाकालस्य वीजानि प्र{??}मेकंसमाहरेत्। धात्रीरसेन देवेशि! सप्त वारान् विभाव-येत। कर्त्तव्या गुटिका तां त स्वेनिक्षिप्य पार्ब्बति!अचिरोवै कालेन खय पा{??}वतो भवेत। अथातः संप्रव-क्ष्यामि शृण त्वं मम वल्लभे!। छागस्य शीर्षं स{??}ह्यतत्र कृष्णमृत्तिव रयित्क पुबर्धस्तरवीगनि वापयेत्यत्काले तानि पु{??}नि भवन्ति तदा यस्योपार[Page0944-a+ 38] निक्षिपेत् स छागो भवति। मयूरशीर्षमादायकृष्ण-चतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वापयेत्यदा फलितः पुष्पितो भवति तदा शणवीजानिग्रींवायां बन्धयेत् मयूरो भवति। कृष्णचतुर्दश्यांमयूरशीर्षमादाय कृष्णमृत्तिकां पूरयेत् कार्पासवीजा-नि वापयेत् तदा फलिताः पुष्पिता भवन्ति पुष्पफले सं-गृह्य समस्तं पेषयित्वा अङ्गं विलिप्य पानीयमध्ये प्रविश्ययदा जले तिष्ठति तदा मयूरो भवति। कृष्णकाकशीर्षमा-दाय काकमाचीवीजानि वापयेत् यदा फलिता पुष्पिताभवति तत्फलं संगृह्य मुखे प्रक्षिप्य काको भवति। काकइव गच्छति मह्यामुद्गीर्णे मोक्षः। पारवतशीर्षमादायकृष्णमृत्तिकां पूरयित्वा तिलवीजानि वापयेत् क्षीरोद-केन सेचनीयं यदा पुष्पितो भवति तदा मुखे संस्था-प्य अन्तर्हितो भवति। तेषां फलानां चूर्णं कृत्वा तेनचूर्णेन यं स्पृशति स किङ्करो भवति। सर्व्वस्वं ददाति। तानि तिलानि संगृह्य नेत्राञ्जनेन सह पिष्ट्वा कपिला-दुग्धेन गुटिकां कारयेत् सप्तरात्रं पाचयेत् तां गुटिकांमुखे निक्षिप्य अन्तर्हितो भवति देवैरपि न दृश्यते मनु-ष्याणां का कथा। उद्गीर्णे पुरुषो भवति। जीवेद्वर्ष-शतं स्त्रियः सर्वे जनाश्च वश्या भवन्ति। गृध्रशिरः समा-दाय कृष्णचतुर्दश्यां कृष्णमृत्तिकायां निक्षिपेत् लशुनवी-जानि वापयेत् यदा फलं पुष्पं भवति तदा पुष्यनक्षत्रेपुष्पं गृहीत्वा अञ्जनेन सह कपिलाघृतेन कज्जलं पातयेत्चक्षुरञ्जनीयं यावत् तावत् योजनशतं पश्यति मेदिन्यां,दिवा नक्षत्राण्यपि पश्यति। एवं उष्ट्रगर्द्दभमहि-षादीनां वृहज्जीवानां शिरसि यत् यत्वीजं यस्यशिरमि वापयेत् यदा पुष्पितः फलितो भवति तदा यस्यवीजानि मुखे निक्षिप्यन्ते स जीवो भवति नात्र सन्देहः। मातुलङ्गस्य मूलन्तु धुस्तूरवीजकेन च। पलाण्डुपुष्पमादाय सूक्ष्मचूर्णन्तु कारयेत्। योऽस्य गन्धंसमाघ्राति स च स्नेहेन पश्यति। दुन्दुभिं पटहांश्चैवशङ्खांश्चैव तु लेपयेत्। एष भूतोपसृष्टानां कुमारीणांगृहेषु च। भूपतिं सेवमानानां तथा तत्कर्म्म-जीविनाम्। न चाग्निर्दह्यते वेश्म यत्रैष सोऽगदोभवेत्। पारावतस्य हृदयं चक्षुर्जिह्वा च शोणितम्। अञ्जनं रोचनायुग्मं वनितावशकृत् परम्। कपालं मानुषंगृह्य कनकस्य फलानि च। कर्पूरं मधुसंयुक्तं निघृय्य ति-लकेन च। नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः। [Page0944-b+ 38] एष कापालिको योगो वशिष्ठस्य शुभं मतम्। नरजिह्वांसमुद्धृत्य सूक्ष्मचूर्णन्तु कारयेत्। जलेन च सुशीतेनदापयेत्तद्विचक्षणः। पाने फले च पुष्पे च भक्ष्ये भोज्येच दापयेत्। प्रजापतिकुलोद्भूता यदि साक्षादरुन्धतीसापि रक्ता प्रियं याति नान्यं पुरुषमिच्छति। हरितालंश्मशाने कृष्णचतुर्दश्यां क्षिप्त्वा कुष्ठविमिश्रं ग्राह्यम्अवश्यं वशीभवेत् स नरः। नरतैलं प्रेताम्बरवर्त्तिकं कृत्वापात्रेरात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्ज्वलं कृत्वा चक्षुषीअभ्यञ्जेत् यं पश्यति स वश्यो भवति। कर्णदन्तमलंलाला स्वदेहाक्षिमलत्रयम्। नासिकोद्भवरक्तञ्च चूर्णमे-तद्वलायुतम्। एतत् सर्वं समुद्धृत्य गुटिकां कारयेद्बुधः। पानभोजनके देयं वशीकरणमुत्तमम्। काकजिह्वावचा कुष्ठमात्मनो रुधिरं स्त्रियः। तद्भात्तदन्नं क-ञ्जिष्ठा तगरं गौरसर्षपाः। शिवनिर्माल्यसंयुक्तं समभा-गानि कारयेत्। भोज्ये पानेऽथवा देयं स्त्रीणान्तुवशकारकम्। नित्यं पुरुषमिच्छन्तीमृतमप्यनुगच्छति। कृष्णसर्पस्याङ्गुलप्रमाणं शिरश्छित्त्वास्यास्यं सर्षपादिभिः। पूरयित्वा छायाशुषकं शोषयेत्। परतः सर्षपान् ग्राह-यित्वा तानि यस्मै दीयते स बश्यो भवति। पूगीफलंगिलित्वाऽपानमार्गेण निर्गतं संगृह्य धुस्तूररसान्तरितंकृत्वा सप्त दिनानि पूजयेत्। पुनः कुङ्कुमचन्दनैरधि-वास्य यस्मै दीयते स वश्यो भवति। दर्दुरयुग्मं गृहीत्वातद्धूमेन दाहयेत्। तद्भस्म सह पानेन वश्यकृत् परमोमतः। अजगन्धस्य पत्त्राणि वचां कुष्ठेन भावयेत्। श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम्। अनेनैव तचूर्णेन योजयेत् त्रींश्च पादपान्। पुष्पितं फलितं दृष्ट्वाचूर्णं वृक्षाद्विलग्नयेत्। तत् क्षणात् फलते वृक्षो नरना-रोषु का कथा। जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रि-तम्। ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात्। गोपितं सैन्धवञ्चैव वृहतीफलमेव च। लेप्यमेतत् प्रयोक्तव्यंनरनारीवशङ्करम्। उद्गातुः पक्षमलिन आत्मनोरुधिरान्वितम्। स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम्। श्वेतार्कं रोचनायुक्तमात्ममूत्रेण पेषयेत्। ललाटे तिलकंकृत्वा त्रैलोक्यं क्षोभयेत् क्षणात्। दृष्टमात्रेणतेनैव सर्वो भवति किङ्करः। श्वेतार्कं चन्दनेनैवरञ्जयेत् सह लेपयेत्। दीयते कस्य चिद्वापि पश्चात्दासो भविष्यति। मधूकं सह तैलेन सार्षपेण तु पेष-येत्। एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत्। [Page0945-a+ 38] संवृत्ते सैथुनीभावे पतिर्दासो भविष्यति”।
“यानि कानिच वीजान्यङ्कोलतैलेन मेलयेत्। सफलो जायतेवृक्षः सिद्धियोग उदाहृतः। शवमुखे विन्दुमात्रंतत्तैलं निःक्षिपेद् यदि। एकयामं भवेत् जीवो ना-न्यथा शङ्करोदितम्। शिग्रुवीजस्थितं तैलं पारावतपुरीषकम्। वराहस्य वसायुक्तं गृहीत्वा च समं समम्। गर्दभस्य वसायुक्तं हरितालं मनःशिलाम्। एभिस्तुतिलकं कृत्वा यथा लङ्केश्वरोनृपः। उल्लुविष्टां गृहीत्वात्वेरण्डतैलेन पेषयेत्। यस्याङ्गे निक्षिपेत् विन्दु सक्षिप्तोजायते ध्रुवम्। सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्ट-कम्। कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत्। यस्याङ्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम्। सिन्दूरंगन्धकं तालं समं पिष्ट्वा मनःशिलाम्। तल्लिप्तवस्त्रं शिरसिअग्निवत् दृश्यते घ्रुवम्। अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरस-म्भवम्। गृहीत्वा पात्रके लिप्ते जलपूर्णं करोति च। दुग्धं तत्र भवेत् सद्यो महाकौतुककौतुकम्। अङ्कोलतैल-लिप्ताङ्गो दृश्यते राक्षसाकृतिः। पलायन्ते नराः सर्वेपशुपक्षिगजा हयाः। अङ्कोलस्य तु तैलेन दीपं प्रज्वा-लयेन्नरः। रात्रौ पश्यति भूतानि खेचराणि महीतले। बुधे वा शनिवारे वा कृकलां ग्राह्य यत्नतः। शत्रुर्मूत्रयतेयत्र कृकलां तत्र निःक्षिपेत्। निखनेद्भूमिमध्येषु उद्धृतेच पुनः सुखी। नपुंसकंभवेत् सत्यं नान्यथा शङ्करोदितम्। गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा। सूक्ष्मचूर्ण-मयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत्। विघ्नाः सर्व्वेपलायन्ते यथा युद्धेषु कातराः” दत्तात्रेय तन्त्रे
११ प॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रजाल¦ n. (-लं)
1. Conjuring, juggling.
2. Deception, cheating.
3. Trick or stratagem in war. E. इन्द्र an organ of sense, and जाल a net.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रजाल/ इन्द्र--जाल n. the net of इन्द्रAV. viii , 8 , 8
इन्द्रजाल/ इन्द्र--जाल n. a weapon employed by अर्जुनMBh.
इन्द्रजाल/ इन्द्र--जाल n. sham , illusion , delusion , magic , sorcery , juggle
इन्द्रजाल/ इन्द्र--जाल n. the art of magic etc. Katha1s. Ratna1v. Prab. Veda1ntas. Sa1h. etc.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Indrajāla : nt.: Name of a missile.
(1) One of the missiles used by Arjuna against the Gandharvas accompanying Citrasena; they were burnt by these arrows 3. 234. 17-18;
(2) one of the astras used by Dhṛtarāṣṭra's sons against Yudhiṣṭhira for covering him up with arrows 8. 43. 21 [In both these references Indrajāla is mentioned with Sthūṇākarṇa];
(3) Arjuna released shower of arrows against the Sindhu warriors; the arrows formed a net which looked like the one produced by the Indrajāla weapon (? or which looked like the effect of some magic ? tad indrajālapratimaṁ bāṇajālam amitrahā/ vyasṛjat) 14. 76. 31.
_______________________________
*3rd word in left half of page p93_mci (+offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Indrajāla : nt.: Name of a missile.
(1) One of the missiles used by Arjuna against the Gandharvas accompanying Citrasena; they were burnt by these arrows 3. 234. 17-18;
(2) one of the astras used by Dhṛtarāṣṭra's sons against Yudhiṣṭhira for covering him up with arrows 8. 43. 21 [In both these references Indrajāla is mentioned with Sthūṇākarṇa];
(3) Arjuna released shower of arrows against the Sindhu warriors; the arrows formed a net which looked like the one produced by the Indrajāla weapon (? or which looked like the effect of some magic ? tad indrajālapratimaṁ bāṇajālam amitrahā/ vyasṛjat) 14. 76. 31.
_______________________________
*3rd word in left half of page p93_mci (+offset) in original book.
