इन्द्रप्रस्थम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रप्रस्थम्, क्ली, (इन्द्रस्य इन्द्रकीलस्य प्रस्थम् इव ।) राजयुधिष्ठिरनिर्म्मितनगरम् । अधुना दिल्ली इति ख्यातम् । (यथा, महाभारते १ । २०८ । २८ । “ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं यापयामासुर्द्वैपायनपुरोगमाः ॥ सागरप्रतिरूपाभिः परिखाभिरलङ्कृतं” ॥ “तत्त्रिपिष्टपसङ्काशं इन्द्रप्रस्थं व्यरोचत । मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्” ॥)
