इन्द्रयव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रयवः, पुं, क्ली, (इन्द्रस्य इन्द्रवृक्षस्य यवः यवाकार- वीजत्वात् तथात्वम् ।) स्वनामख्याततिक्तवीजविशेषः । तत्पर्य्यायः । कलिङ्गम् २ भद्रयवम् ३ । इत्यमरः ॥ शक्राह्वः ४ शक्रवीजम् ५ वत्सकः ६ वत्सकवीजम् ७ भद्रजः ८ कुटजः ९ कुटजवीजम् १० कलिङ्गवीजम् ११ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शीतत्वम् । कफवातरक्तपित्तहरत्वम् । दाहातिसारशमनत्वम् । ज्वरदोषशूलमूलनाशित्वञ्च । इति राजनिर्घण्टः ॥ कुडचिर विचि इति भाषा । यथा, -- “उक्तं कुटजवीजन्तु यवमिन्द्रयवं तथा । कलिङ्गञ्चापि कालिङ्गं तथा भद्रयवं स्मृतम्” ॥ इति क्लीवे अमरः प्राह । “क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् । फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि” ॥ इति धन्वन्तरिः प्राह । “ऐन्द्रं यवं त्रिदोषघ्नं संग्राहि कटु शीतलम् । ज्वरातीसाररक्तार्शःकृमिविसर्पकुष्ठनुत् ॥ दीपनं गुदकीलास्रवातास्नश्लेष्मशूलजित्” । इति भावप्रकाशः ॥ (यथा, वैद्यकद्रव्यगुणः । “तद्वोजं ज्वरजित्तिक्तं रक्तपित्तातिसारजित्” ।)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रयव नपुं।
कुटजबीजम्
समानार्थक:कलिङ्ग,इन्द्रयव,भद्रयव
2।4।67।1।2
एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले। कृष्णपाकफलाविग्नसुषेणाः करमर्दके॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रयव¦ न॰ पु॰ इन्द्रस्य कुटजवृक्षस्य यवाकृतिवीजत्वात् यवइव वीजम्। कुटजवृक्षस्य यवाकारे तिक्तरसे वीजे स्वनामख्याते।
“ऐन्द्रोयवस्त्रिदोषघ्नः संग्राही कटुशीतलः। ज्वरातिसाररक्तार्शःकृभिवीसर्पकुष्ठनुत्। दीपनो गुद-कीलास्रवातास्रश्लेष्मशूलजित्” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रयव¦ mn. (-वः-वं) The seed of the Wrightea antidysenterica. E. इन्द्र the plant, and यव seed: it is used medicinally in cases of diarrhœa, dysentery, &c.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रयव/ इन्द्र--यव n. इन्द्र's grain
इन्द्रयव/ इन्द्र--यव n. the seed of the Wrightia Antidysenterica Sus3r.