इन्द्रलुप्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रलुप्तम्, क्ली, (इन्द्राणां इन्द्रनीलवर्णकेशानां लुप्तं लोपो यस्मात् ।) केशरोगविशेषः । टाक इति भाषा । तस्य लक्षणम् । “रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् । प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥ रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः । तदिन्द्रलुप्तं खालत्यं रुज्येति च विभाव्यते” ॥ इति निदानम् ॥ खालत्यं रुज्येति च तस्य पर्य्याय- कथनम् । तथाच भोजः । “तदिन्द्रलुप्तमित्याहुः खल्लीं रुज्याञ्च केचन” । कार्त्तिकस्त्वाह । “इन्द्रलूप्तं श्मश्रुणि भवति खालत्यं शिरोरुहेष्वेव रुज्या सवेदनेति आगमस्तत्र नास्ति” ॥ इति तट्टीका ॥ अथेन्द्रलुप्तस्य चिकित्सा । “तिक्तपटोलीपत्रस्वरसैर्घृष्टा शमं याति । चिरकालजापि रुज्या नियतं दिवसत्रयेणैव ॥ गोक्षुरस्तिलपुष्पाणि तुल्यञ्च मधुसर्पिषः । शिरः प्रलेपितं तेन केशैः समुपचीयते ॥ हस्तिदन्तमसीं कृत्वा छागीदुग्धरसाञ्जनः । लोमान्यनेन जायन्ते लेपात् पाणितलेष्वपि ॥ यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः । इन्द्रलुप्तं शमं याति केशा स्युश्च घना दृढाः ॥ जातीकरञ्जवरुणकरवीराग्निपाचितम् । तैलमभ्यञ्जनाद्धन्ति इन्द्रलुप्तं न संशयः ॥ स्नुहीपयः पयोऽर्कस्य लाङ्गलीमार्कवो विषम् । अजामूत्रं सगोमूत्रं रत्तिका सेन्द्रवारुणी ॥ सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम् । तैलं भवति नियमात् खालित्यव्याधिनाशनम् ॥ स्नुहीदुग्धादितैलम्” । इति भावप्रकाशः ॥ (“केशघ्नस्य चिकित्सान्तु श्टणु हारीत ! साम्प्रतम् । रूक्षं सपाण्डुरं वातात् पित्ताद्रक्तं सदाहकम् ॥ कफान्वितं भवेत् स्निग्धं रक्तात्पाकं व्रजन्ति तत् । सन्निपातेन सदृशं जायते सर्व्वलक्षणम्” ॥ अस्य चिकित्सा यथा ॥ * ॥ “गुडेन सुरसा शुण्ठी मातुलुङ्गरसेन तु । केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ॥ १ ॥ त्रिफलाञ्च वचां शुण्ठीं गुडेनापि प्रपेषितम् । धावनं कफसम्भूते चेन्द्रलुप्ते प्रशस्यते ॥ २ ॥ पैत्तिके च हितं दुग्धं नवनीतान्वितन्तथा । सिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ॥ ३ ॥ भृङ्गराजरसं ग्राह्यं शृङ्गवेररसन्तथा । सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् ॥ पश्चात् कार्य्यं पूरुषेण स्नानमुष्णेन वारिणा । धवार्ज्जुनकदम्बस्य शिरीषमपि रोहितम् ॥ क्वाथमेषां शिरोदद्रून् शमयेदिन्द्रलुप्तकभ् । कुरूवकस्य पुष्पेण जपायाः कुसुमेन च ॥ घृष्टस्य चेन्द्रलप्तस्य कृतमेव निवारणम् । पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् ॥ शीतलानि प्रदेयानि पैत्तिकेन विधीयते” ॥ “धुस्तूरपत्राणि च मागधीनां निशा विशालागृहधूमकुष्ठम् । घृतेन युक्तञ्च जलेन पिष्टं शिरःप्रलेपे क्षतवारणं स्यात् ॥ पित्ते कृते दोषयुते च रोगे पटोलपत्रं पिचुमर्द्दकं वा । तथामलक्या फलमेव पिष्ट्वा घृतेन खण्डेन प्रलेपनञ्च ॥ निवार्य्यते मस्तकजं क्षतञ्च शिरोर्त्तिसङ्घान् विनिहन्ति चैतत् । गजेन्द्रदन्तस्य मसीं गृहीत्वा प्रलेपनं वा नवनीतकेन ॥ तिलार्कभल्लातकदग्धमाष- क्षारस्य लेपो नबनीतकेन । सर्पस्य क्षारस्य तथा प्रयोगः खल्लाटके केशचयं करोति” ॥ इति हारीतः ॥ “तेजोऽनिलाद्यैः सहकेशभूमिम् दग्ध्वाशु कुर्य्यात् खलतिन्नरस्य” ॥ * ॥ चिकित्सा यथा चरके । “खालत्ये पलिते वल्यां हरिल्लोम्नि च शोधितम् । नस्यैस्तैलैः शिरोवक्तप्रलेपैश्चाप्युपाचरेत् ॥ सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च । नस्यं स्यादणुतैलं वा खालत्यपलितापहम्” ॥)
इन्द्रलुप्तः, पुं, (इन्द्राणां इन्द्रनीलवत् केशानां लुप्तं नाशो यस्मात् ।) केशनाशकरोगः । तत्पर्य्यायः । इन्द्रलुप्तकः २ केशघ्नः ३ । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रलुप्त¦ न॰ इन्द्र इन्द्रवर्ण्णोनीलः केशो लुप्तोयस्मात्। केश-नाशके (टाक) ख्याते रोगभेदे। तन्निदानादि
“रोम-कूपानुगं रक्तं पित्तेन सह मूर्च्छितम्। प्रच्यावयति रोमाणिततः श्लेष्मा सशोणितः। रुणद्धि रोमकूपास्तु ततोऽन्येषाससम्भवः। तदिन्द्रलुप्तं खालत्यं रुज्येति च विभाव्यते” निदा॰ उक्तम्। निदानटीकाकृता तु इन्द्रलुप्तं श्मश्रुणिभवति। खालत्यं शिरोरुहेष्व व रुज्या सवेदनेति तेषांभेद उक्तः। वा कप्। इन्द्रलुप्तकं तत्रैवार्थे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रलुप्त¦ mn. (-प्तः-प्तं) Morbid, baldness, falling of the hair of the head: according to some authorities, loss of beard. E. इन्द्र best, लुप्त lost.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रलुप्त/ इन्द्र--लुप्त m. n. morbid baldness of the head
इन्द्रलुप्त/ इन्द्र--लुप्त m. loss of beard.
