इन्द्रवारुणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रवारुणी, स्त्री, (इन्द्रं वारयति । इन्द्र + वृ + णिच् + उन् । ङीप्) लताविशेषः । राखाल ससा इति भाषा ॥ तत्पर्य्यायः । विशाला २ । इत्यमरः ॥ ऐन्द्री ३ चित्रा ४ गवाक्षी ५ गजचिर्भटा ६ मृगेर्व्वारु ७ पिटङ्कीकी ८ मृगादनी ९ । इति रत्नमाला ॥ इन्द्रा १० अरुणा ११ गवादनी १२ क्षुद्रसहा १३ इन्द्रचिर्भिटी १४ सूर्य्या १५ विषघ्नी १६ गणकर्णिका १७ अमरा १८ माता १९ सुकर्णी २० सुफला २१ तारका २२ वृषभाक्षी २३ पीत- पुष्पा २४ इन्द्रवल्लरी २५ हेमपुष्पी २६ क्षुद्रफला २७ वारुणी २८ बालकप्रिया २९ रक्तैर्व्वारुः ३० विषलता ३१ शक्रवल्ली ३२ विषापहा ३३ अमृता ३४ विषवल्ली ३५ । चित्रफला ३६ । इति जटा- धरः ॥ अपि च । “ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी । वारुणी च पराप्युक्ता सा विशाला महाफला ॥ श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी । गवादनीद्वयं तिक्तं पाके कटुरसं लघु ॥ वीर्य्योष्णं कामलापित्तकफप्लीहोदरापहम् । श्वासकाशापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत् ॥ प्रमेहमूढगर्भामगण्डामयविषापहम्” । इति भावप्रकाशः ॥ अस्या गुणाः । तिक्तत्वम् । कटु- त्वम् । शीतत्वम् । रेचनत्वम् । गुल्मपित्तीदरश्लेष्म- कृमिकुष्ठज्वरापहत्वञ्च ॥ इति राजनिर्घण्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रवारुणी स्त्री।
इन्द्रवारुणी
समानार्थक:विशाला,इन्द्रवारुणी
2।4।156।2।5
इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रवारुणी¦ स्त्री इन्द्रस्यात्मनोवारुणीव प्रिया (राखालससा)तिक्तरसायां श्वेतमूलायां पीतपुष्पायां लतायाम्। स्वार्थकन्। इन्द्रवारुणिकापि अत्रैवार्थे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रवारुणी¦ f. (-णी) See the preceding. E. इन्द्र and वरुण the two deities so called, affixes अण् and ङीप्; the favourite plant of INDRA and VARUNA.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रवारुणी/ इन्द्र--वारुणी f. Colocynth , a wild bitter gourd , Cucumis Colocynthis
इन्द्रवारुणी/ इन्द्र--वारुणी f. the favourite plant of इन्द्रand वरुणComm. on Ka1tyS3r. L.