इन्द्रसावर्णिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रसावर्णिः, पुं, चतुर्द्दशमनुः । अस्मिन् मन्वन्तरे वृहद्भानुरवतारः । शुचिरिन्द्रः । पवित्रचाक्षुषा- दयो देवाः । अग्निबाहुशुचिशुद्धमागधाद्याः सप्त- र्षयः । उरुगम्भीरब्रध्नाद्या मनुपुत्रा भविष्यन्ति ॥ इति श्रीभागवतम् ॥ (अयं हि भौत्यनाम्ना च- आख्यातः । यथा, विष्णुपुराणे ३ । २ । “भौत्यश्चतुर्दशश्चात्र मैत्रेय भविता मनुः । शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् । ४० । चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिरस्तथा । वयोवृद्धाश्च वै देवाः सप्तर्षीनपि मे शृणु । ४१ । अग्निबाहुः शुचिः शुक्रो मागधोऽग्नीध्र एव च । युक्तस्तथाजितश्चान्यो मनुपुत्त्रानतः शृणु । ४२ । उरुगम्भीरब्रध्नाद्या मनोस्तस्य सुता नृपाः” । ४३ । मार्कण्डेयपुंराणेऽपि १०० अध्याये उक्तरूपेण वर्णितम् । अधुना तु सप्तममन्वन्तरस्याष्टाविंशति- तमं यगं ।)
